उत्तीर्णेति ॥ उत्तीर्णभारमवरोपितावपनम् अत एव लघु तेन तथोक्तेन तथाप्यलघुना उलपानां बल्वजतृणानामोघेन यत्सौहित्यं पूर्तिः । 'पर्याप्तमुपसं- पन्नं पूर्तिः सौहित्यमुच्यते' इति हलायुधः । तेन निःसहतरेणात्यन्तमसहतरेण बाह्यभारावतारेऽप्यन्तर1तिभोजनाद्गुरूभवतेत्यर्थः । सहेर्निःपूर्वात्पचाद्यजन्तात्त- रप् प्रत्ययः । 'उलपा बल्वजाः प्रोक्ताः' इति विश्वः । औक्षकेण उक्ष्णां समूहेन । 'गोत्रोक्ष- (४।२।३९) इत्यादिना वुञ् प्रत्ययः । तरोरधस्तात्तरुतले रोमन्थः पशूनां चर्वितचर्वणं तेन मन्थरं मन्दं चलन्त्यो गुर्व्यः सास्ना गलकम्बलानि यस्मि- न्कर्मणि तद्यथा तथा । 'सास्ना तु गलकम्बलः' इत्यमरः । किंच निमीलन्ति सुखान् मुकुलीभवन्ति अलसानि चेक्षणानि यस्मिन्कर्मणि तद्यथा तथा आसांचके आसितम् । 'आस उपवेशने' भावे लिट् । 'दयायासश्च' (३।१॥३७) इत्याम्प्र- त्ययः । 'कृञ्चानुप्रयुज्यते लिटि' (३।१।४०) इति कृजोऽनुप्रयोगः । इतःप्रभृ- त्याचतुष्टयात्स्वभावोक्तिः ॥ ६२ ॥
मृत्पिण्डशेखरितकोटिभिरर्धचन्द्रं
शृङ्गैः शिखाग्रगतलक्ष्ममलं हसद्भिः।
उच्छृङ्गितान्यवृषभाः सरितां नदन्तो
रोधांसि धीरमवचस्करिरे महोक्षाः॥६३॥
मृत्पिण्डेति ॥ मृत्पिण्डैर्वप्रक्रीडालग्नैर्मृत्खण्डैः शेखरिताः संजातशेखराः कोटयोऽग्राणि येषां तैरत एव शिखाग्रगतमुभयकोट्यन्तर्गतं लक्ष्मैव मलं यस्य स एवंभूतं श्वेतमर्धचन्द्रं हसद्भिरित्यतिशयोक्तिभेद इत्युक्तम् । अभूतोपमेति मता- न्तरम्। शृङ्गैर्विषाणैरुच्छृङ्गा उत्पतितशृङ्गाः कृता उच्छृङ्गिता अन्यवृषभाः प्रतिवृषभा यैस्ते अत एव धीरं गम्भीरं नदन्तो गर्जन्तो महान्त उक्षाणो महोक्षाः । 'अचतुर-' (५।४।७७) इत्यादिना निपातात्साधुः । सरितां रोधांसि अवचस्करिरे आलि- लिखुः । हर्षाद्गुरुजुरित्यर्थः । अवपूर्वात्किरतेः कर्तरि लिट् । 'किरतेर्हर्षजीविकाकुलायकरणेष्विति वक्तव्यम्' (वा०) इत्यात्मनेपदम् । 'ऋच्छत्यृताम्' (७/४।१५) इति गुणः, 'अपाच्चतुष्पाच्छकुनिष्वालेखने' (६।१।१४२) इति सुडागमः ॥ ६३ ।।
मेदस्विनः सरभसोपगतानभीकान्
भङ्क्त्वा पराननडुहो मुहुराहवेन ।
ऊर्जस्वलेन सुरभीरनु निःसपत्नं
जग्मे जयोद्धुरविशालविषाणमुक्ष्णा ॥ ६४ ॥
मेदस्विन इति ॥ ऊर्जो बलमस्यास्तीति तेन ऊर्जस्वलेन बलिना । 'ज्योत्स्ना- तमिस्रा-' (५।२।११४) इत्यादिना निपातः । उक्ष्णा वृषभेण मेदस्विनो मांस- लान् । 'अस्मायामेधास्रजो विनिः' (५।२।१२१)। अत एव सरभसं सत्वरमुप- गतान् अभिकामयन्त इत्यभीकान् कामुकान् । 'कम्रः कामयिताभीकः' इत्यमरः । 'अनुकाभिकाभीकः कमिता' (५।२।७४) इति निपातः । पराननडुहो बलीवर्दान् मुहुराहवेन युद्धेन भक्त्वा निर्जित्य जयेनोद्धुरे निर्भरे। 'ऋक्पूर-' (५।४।७४)
पाठा०-१ रगुरुभोजनाद्गु".