पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/१७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४१
पञ्चमः सर्गः ।

 स्पष्टमिति ॥ बहिः स्थितवतेऽप्यनुजीविजनाय । राज्ञोऽवसरकाङ्क्षिण इति भावः । राज्ञां चेष्टाविशेषं तत्कालोचितचरित्रविशेष स्पष्टं निवेदयन्तः । तद्व्यञ्जक- प्रबन्धपाठैरिति भावः । कलगिरो मधुरवाचो वैतालिका मङ्गलपाठकाः अवसरेषु तद्वेलासु स्फुटैः प्रसिद्धैः पदैः प्रकटः प्रकाशोऽर्थोऽभिधेयं यस्मिन्कर्मणि तद्यथा तथा उच्चैर्भोगावलीः प्रबन्धान् पेठुः पठन्ति स्म । 'अत एकहल्मध्येऽनादेशादे- लिटि' (६१।१२०) इत्येत्वाभ्यासलोपौ ॥ ६७ ॥

  उन्नम्रताम्रपटमण्डपमण्डितं त-
   दानीलनागकुलसंकुलमावभासे ।
  संध्यांशुभिन्नघनकर्बुरितान्तरीक्ष-
   लक्ष्मीविडम्बि शिबिरं शिवकीर्तनस्य ॥ ६८॥

 उन्नम्रेति ॥ उन्ननैरुन्नतैः ताम्रर्धातुरक्तैः पटमण्डपैर्दूष्यैर्मण्डितं आसमन्ता- न्नीलैर्नागकुलैर्गजसङ्घः संकुलं अत एव संध्यांशुभिन्नैः संध्यारागसंभिन्नैर्घनैर्मेधैः कर्बुरितस्य चित्रीकृतस्यान्तरीक्षस्य लक्ष्मीं विडम्बयत्यनुकरोतीति तत्तथोक्तं शिव- कीर्तनस्य मङ्गलकीर्तेः कृष्णस्य तच्छिविरं कटकमाबभासे । मनोहरमभूदित्यर्थः । उपमालंकारः ॥ ६८॥

  धरस्योद्धर्ताऽसि त्वमिति ननु सर्वत्र जगति
   प्रतीतस्तत्किं मामतिभरमधः प्रापिपयिषुः ।
  उपालब्धेवोच्चैर्गिरिपतिरिति श्रीपतिमसौ
   बलाक्रान्तः क्रीडग्विरदमथितोर्वीरुहरवैः ॥६९ ॥

इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये श्यङ्के पञ्चमः सर्गः ॥५॥

 धरस्येति ॥ बलैः सैन्यैराक्रान्तो गिरिपती रैवतकः क्रीडद्भिर्विहरमाणैर्द्विर- दैर्मथितानां भग्नानामुर्वीरुहाणां वृक्षाणां रवैः शब्दैनिमित्तेन श्रीपतिं हरिम् । नन्वङ्ग त्वं धरस्य पर्वतस्योद्धर्ता उद्धारकोऽसीति सर्वत्र जगति प्रतीतः प्रसिद्धः । गोवर्धनोद्धारणादिति भावः । तत्तर्हि किं किमर्थमतिभरमतिभारवन्तं मामधः प्रापिपयिषुः प्रापयितुमिच्छुरसि । प्रापयतेः सन्नन्तादुप्रत्ययः । इत्युच्चैरुपालब्धेव आक्रुक्षदिवेत्युत्प्रेक्षा । उपाङ्पूर्वाल्लभेर्लुङ् 'एकाच उपदेशे-' (७।२।१०) इति नेट् । 'झंषस्तथोऽधः' (८।२।४०) इति तकारस्य धकारः । 'धि च' (8/2/२५) इति सिचः सकारलोपः । शिखरिणी वृत्तम् । 'रसै रुदैश्छिन्ना यमनसभला गः शिखरिणी' इति लक्षणात् ॥ ६९ ॥

इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचिते शिशुपालवध-
काव्यव्याख्याने सर्वंकषाख्ये पञ्चमः सर्गः ॥५॥


१ अत्र मल्लिनाथोऽप्युपालम्भयोग्य एव । सिचः सत्वे 'झषस्तथो:-' (८।२।४०)

इत्यस्याप्राप्तेः । तस्मात् 'झलो झलि' (८।२।२६) इति सलोपे 'झषस्तथो:-' इति धः ॥