पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/१५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२४
शिशुपालवधे

  अल्पप्रयोजनकृतोरुतरप्रयासै-
   रुद्गुर्णलोष्टलगुडैः परितोऽनुविद्धम् ।
  उ1द्यातमुद्रुतमनोकहजालमध्या-
   दन्यः शशं गुणमनल्पमवन्नवाप ॥ २५ ॥

 अल्पेति ॥ अल्पप्रयोजनेनाल्पफलेन निमित्तेन कृत उरुतरो भूयान्प्रयासो यैस्तैः । अल्पस्यैकस्य शशपिण्डस्य भूयसामकिंचित्करत्वादिति भावः । उद्गूर्णा उद्यताः लोष्टानि मृत्खण्डा लगुडाश्च दण्डकाष्ठानि यस्तैः । पुंभिरिति शेषः । परितोऽनुविद्धमनुरुद्धम् । अनसः शकटस्याकं गतिं घ्नन्तीत्यनोकहा वृक्षास्तेषां जालमध्यादु1द्यातमुत्थितम् । उत्पूर्वाद्या2तेः कर्तरि क्तः । उद्रुतं पलायितं शशं मृगविशेषम् । अन्यः परः अवन् हन्तृन्निवार्य रक्षन्ननल्पं गुणं महान्तमुत्कर्षम- वाप । दयालोरनामिषलोलुपस्य सुकीर्तिः सुलभेति भावः । अत्रार्थान्तरं चाहुः । अन्यो गुणं पाशमवन् प्रयुञ्जानः शशमवाप जग्राह । यो हन्ता तस्यैव मृग इति व्याधसमयादिति भावः ॥ २५ ॥

  त्रासाकुलः परिपतन् परितो निकेतान्
   पुंभिर्न कैश्चिदपि धन्विभिरन्वबन्धि ।
  तस्थौ तथापि न मृगः क्वचिदङ्गनाना-
   माकर्णपूर्णनयनेषुहतेक्षणश्रीः॥ २६ ॥

 त्रासेति ॥ त्रासाकुलो जनदर्शनाद्भयविह्वलोऽत एव निकेतान्निवेशान् परितः सर्वतः । 'अभितःपरितः-' (वा०) इत्यादिना द्वितीया । परिपतन् धावन् मृगो हरिणः कैश्चिदपि धन्विभिर्धनुष्मद्भिः । 'धन्वी धनुष्मान्धानुष्कः' इत्यमरः । व्रीह्यादित्वादिनिरिति स्वामी । पुंभिर्नान्वबन्धि नानुयातः । बध्नातेः कर्मणि लुङ् । तथाप्यङ्गनानामाकर्णपूर्णा विस्तीर्णा आकृष्टाश्च ये नयनान्येवेषवस्तैर्हता ईक्षणश्रीर्यस्य सः । अतः क्वचिदपि न तस्थौ । किंतु वीरविशिखापाताभावेऽप्यङ्ग- नापाङ्गविशिखपातात्पलायित एवेति भावः । अत्र जनालोकनोत्थभयहेतुकस्य मृगा- नवस्थानस्याङ्गनापाङ्गेषु हतिहेतुकत्वोत्प्रेक्षणाद्धेतूत्प्रेक्षा । सा च व्यञ्जकाप्रयोगात्प्रती- यमाना। हेतोश्व हतेक्षणश्रीरिति विशेषणगत्योक्तत्वात्काव्यलिङ्गमिति संकरः॥२६॥

  आस्तीर्णतल्परचितावसथः क्षणेन
   वेश्याजनः कृतनवप्रतिकर्मकाम्यः ।
  खिन्नानखिन्नमतिरापततो मनुष्यान्
   प्रत्यग्रहीच्चिरनिविष्ट इवोपचारैः ॥ २७ ॥

 आस्तीर्णेति ॥ क्षणेनास्तीर्णतल्पं वेश्यावृत्तेः शय्याप्रधानत्वात्प्रागेव सज्जि- तशय्यं यथा तथा रचितावसथः कल्पितनिकेतः । 'स्थानावसथवास्तु' च इति कोशः । कृतेन नवप्रतिकर्मणा नूतनेन प्रसाधनेन काम्यः स्पृहणीयोऽखिन्नमति- रश्रान्तचित्तः । अगणिताध्वखेद इत्यर्थः । वेश्याजनः खिन्नानध्वश्रान्तानापतत पाठा०-१ 'उद्यन्त”. २ र्वादेतेः'. ।

1