उत्क्षिप्तेति ॥ उत्क्षिप्त उद्धृतो यः काण्डपट एव काण्डपटकः दूष्याधोलम्बि- वायुसंचारार्थः पटः । 'अपटः काण्डपटी स्यात्' इति वैजयन्ती । तस्यान्तरेऽवकाशे लीयमानेन मन्दानिलेन प्रशमितं श्रमेणाध्वखेदेन यद्धर्मतोयं स्वेदाम्बु तद्येषां तै राजदारै राजावरोधैः दूर्वाणां प्रतानं प्रचय एव सहजमकृत्रिममास्तरणं तल्पं येषु तेषु वसनसद्मसु पटमण्डपेषु निद्रासुखं भेजे ॥ २२ ॥
प्रस्वेदवारिसविशेषविषक्तमङ्गे
कूर्पासकं क्षतनखक्षतमुत्क्षिपन्ती ।
आविर्भवद्धनपयोधरबाहुमूला
शातोदरी युवदृशां क्षणमुत्सवोऽभूत् ॥ २३ ॥
प्रस्वेदेति ॥ अङ्गे गात्रे प्रस्वेदवारिणा सविशेषं सातिशयं यथा तथा विष- क्तमतिश्लिष्टं कूर्पासकं चोलकम् । कञ्चुकमित्यर्थः । 'चोलः कूर्पासकोऽस्त्रियाम्' इत्यमरः । क्षतानि पुनर्विदीर्णानि नखक्षतानि यस्मिन्कर्मणि तद्यथा तथा उत्क्षि- पन्ती उन्मोचयन्ती अत एवाविर्भवत्प्रकाशमानं घनपयोधरबाहुमूलं घनौ पयोधरौ बाहुमूले च यस्याः सा शातोदरी । 'नासिकोदर-' (४।१।५५) इत्यादिना ङीप् । युवदृशां क्षणमुत्सवोऽभूत् । एतेन यूनां त्वराचिन्तादिकरमिष्टवस्त्ववलोकननिमित्तं कालाक्षमत्वलक्षणमौत्सुक्यं व्यज्यते । नायिकाभिसारिणी प्रगल्भा वा ॥ २३ ॥
यावत्स एव समयः सममेव ताव-
दव्याकुलाः पटमयान्यभितो वितत्य ।
पर्यापतत्क्रयिकलोकमगण्यपण्य-
1पूर्णापणा विपणिनो विपणीर्विभेजुः ॥ २४ ॥
यावदिति ॥ विपणो व्यवहारः स एषामस्तीति विपणिनो वणिजो यावत् स एव समयः सेनानिवेशलक्षण एव तावत्क्षण एव समं युगपत् अव्याकुला अव्यग्राः सन्तः पटमयानि पटविकाराणि । पटमण्डपानीत्यर्थः । अभितो वितत्य उभयतः श्रेण्या वितत्य विस्तीर्य क्रयेण जीवतीति क्रयिकः । 'वस्त्रक्रयविक्रयात्-' (४॥४॥ १३) इति ठक् । पर्यापतन् परितो धावन् क्रयिकलोकः क्रेतृजनो यस्मिन्कर्मणि अगण्यैरसंख्येयैः पण्यैः पण्यद्व्यैः पूर्णा आपणाः पण्यप्रसारणस्थानानि यासु ता विपणीः पण्यवीथीः । 'आपणस्तु निषद्यायां विपणिः पण्यवीथिका' इत्यमरः । विभेजुः । असंकीर्णं निर्ममुरित्यर्थः । स्वभावोक्त्यनुप्रासौ ॥ २४ ॥ तत्
पाठा०-१ 'पूर्णापणं विपणिनो विपणि विभेजुः'. अयमेव पाठो वल्लभव्याख्यातः प्राचीनश्च । अत एवामरव्याख्यायाम् 'अत एव प्रयोगाद्विपणेः पुंस्त्वमपीति सर्वधरः' इति
मुकुट उक्तवान् । वल्लभोऽपि 'बाहुल्येन विपणिशब्दं स्मरन्ति' इत्युक्तवान्.