पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/१४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११६
शिशुपालवधे

भागुरिरल्लोपमवाप्योरुपसर्गयोः' इत्यकारलोपः । एकनालावलम्बिफलद्वयवदेकशब्देनार्थद्वयप्रतीतेरर्थश्लेषोऽयं प्रकृताप्रकृतगोचरः । उपमा त्वङ्गमिति संकरः ॥४॥

  आरक्षमग्नमवमत्य सृणिं
   शिताग्रमेकः पलायत जवेन कृतार्तनादः ।
  अन्यः पुनर्मुहुरुदप्लवतास्तभारमन्योन्यतः
   पथि बताबिभितामिभोष्ट्रौ ॥५॥

 आरक्षेति ॥ पथि मार्गे इभोष्ट्रावन्योन्यतोऽन्योन्यस्मादबिभितां भीतवन्तौ । 'ञिभी भये' लङ् । 'भियोऽन्यतरस्याम्' (६।४।११५) इतीत्वम् । बतेत्यनयोरपि भीतिरिति खेदेऽतिविस्मये वा। 'खेदानुकम्पासंतोषविस्मयामन्त्रणे बत' इत्यमरः । तत्र लिङ्गमाह-एक इभ आरक्षः कुम्भयोरधःप्रदेशस्तत्र मग्नं प्रविष्टं शिताग्रं तीक्ष्णमुखं सृणिमङ्कुशम् । 'अङ्कुशोऽस्त्री सृणिर्द्वयोः' इत्यमरः । अवमत्यावधूय कृत आर्तनादो येन सः। अतिकरुणं क्रन्दन्नित्यर्थः । जवेन पलायत पलायितवान् । परापूर्वादयतेर्लुङ् । 'उपसर्गस्यायतौ' (८।२।१९) इति रेफस्य लत्वम् । अन्यः पुनरुष्ट्रस्तु अस्तभारं निरस्तभारं यथा तथा मुहुरुदप्लवतोत्प्लवितवान् । 'प्लु गतौ' इति लङ् । स्वभावोक्तिः ॥ ५॥

  आयस्तमैक्षत जनश्चटुलाग्रपादं
   गच्छन्तमुच्चलितचामरचारुमश्वम् ।
  नागं पुनर्मृदु सलीलनिमीलिताक्षं
   सर्वः प्रियः खलु भवत्यनुरूपचेष्टः॥६॥

 आयस्तमिति ॥ जनश्चटुलाग्रपादं चञ्चलपूर्वचरणं यथा तथा गच्छन्तम् । शीघ्रं धावन्तमित्यर्थः। उच्चलितैरुल्लसितैश्चामरैश्चारुमश्वमायस्तं सयत्नमाहृतं यथा तथा । 'यसु प्रयत्ने' कर्तरि क्तः । क्लान्तं क्रियाविशेषणम् । ऐक्षत ईक्षितवान् । ईक्षतेर्लङ् 'आडजादीनाम्' (६।४।७२) 'आटश्च' (६।१।९०) इति वृद्धिः । नागं पुनर्गजं तं सलीलं निमीलिते अक्षिणी यस्मिन्कर्मणि तत् । 'बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्षच्' (५।४।११३) मृदु मन्दं गच्छन्तमायस्तमैक्षत । कथं शीघ्रमन्दयोस्तुल्यदृष्टिरत आह-सर्वः प्राणी अनुरूपचेष्टः स्वजात्युचितव्यापारः सन् प्रीणातीति प्रियः प्रीतिकरो भवति खलु । 'इगुपधज्ञाप्री-' (३।१।१३५) इति कर्तरि क्तः । अर्थान्तरन्यासः ॥ ६ ॥

  त्रस्तः समस्तजनहासकरः
   करेणोस्तावत्खरः प्रखरमुल्ललयांचकार ।
  यावच्चलासनविलोलनितम्बबिम्बविस्त्रस्तवस्त्रमवरोधवधूः
   पपात ॥७॥

 त्रस्त इति ॥ करेणोरिभ्याः । 'करेणुरिभ्यां स्त्री नेभे' इत्यमरः । 'भीत्रार्थानां

भयहेतुः' (१।४।२५) इत्यपादानत्वम् । त्रस्तो भीत: खरो गर्दभः समस्तजनस्य