पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/१४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११५
पञ्चमः सर्गः ।

 भास्वदिति ॥आशा दिशो भास्वत्करव्यतिकरेण सूर्यांशुव्याप्त्या उल्लसिताम्बरान्ताः प्रकाशिताकाशदेशाः । अन्यत्र भास्वान् भास्वरोऽभिरूपः । 'भास्वान् भास्वरसूर्ययोः' इति विश्वः । तस्य हस्तस्य स्पर्शनेनोल्लसिताम्बरान्ताः स्रस्तवस्त्राञ्चलाः अत एव महाजनदर्शनेन सापत्रपा इव । 'लज्जा सापत्रपान्यतः' इत्यमरः । अम्बरविकाशि व्योमव्यापि, वासश्शोभि च । 'अम्बरं व्योमवाससोः' इति विश्वः । चमूषु समुत्थं करभ उष्ट्रपोतः । 'उष्ट्रे क्रमेलकमयमहाङ्गाः करभः शिशुः' इत्यमरः । तस्य कण्ठ इव कडारं कपिशम् । 'कडारः कपिशः पिङ्गः' इत्यमरः । पृथ्वीरजः संविव्युः संवत्रुः । आच्छादयामासुरित्यर्थः । 'व्येञ् संवरणे' लिट् । कित्त्वात्संप्रसारणे द्विर्भावः । 'एरनेकाचो-' (६।४।८२) इति यणादेशः । स्त्रियो वस्त्रापहारे लज्जया यत्किंचिदाच्छादयन्तीति भावः । अत्राचेतनास्वाशासु श्लिष्टविशेषणमहिम्ना स्त्रीप्रतीतौ तदभेदाध्यवसायेन संव्यानव्यवहारसमारोपात् समासोक्तिः । सा च सापत्रपत्वोत्प्रेक्षानुप्राणितेति संकरः ॥ ३॥

  आवर्तिनः शुभफलप्रदशुक्तियुक्ताः
   संपन्नदेवमणयो भृतरन्ध्रभागाः ।
  अश्वाः प्यधुर्वसुमतीमतिरोचमानास्तूर्णं
   पयोधय इवोर्मिभिरापतन्तः ॥४॥

 आवर्तिन इति ॥ आवर्तिनो दशावर्तवन्तः । 'प्रशंसायाम्-' (५।३।६६) इति णिनिः । ते च 'द्वावुरस्यौ शिरस्यौ द्वौ द्वौ द्वौ रन्ध्रोपरन्ध्रयोः । एको भाले ह्यपाने च दशावर्ता ध्रुवाः स्मृताः॥' इत्युक्ता दश ध्रुवाख्या विवक्षिताः । अन्येषामनन्तरमेव पृथगभिधानात् । अन्यत्र तु जलभ्रमवन्तः । 'स्यादावर्तोऽम्भसां भ्रमः' इत्यमरः । रोमसंस्थाने तु तत्साम्याव्द्यपदेशः । तदुक्तम्-'आवर्तसाम्यादावर्तो रोमसंस्थानमङ्गिनाम्' इति । शुभफलानि राज्यलाभादीनि प्रददतीति शुभफलप्रदाः । 'प्रे दाज्ञः' (३।२।६) इति कः । ताभिः शुक्तिभिः संस्थानैरावर्तविशेषैर्युक्ताः । तदुक्तम्- 'वक्षःस्थाः शुक्तयस्तिस्र ऊर्ध्वरोमा जयावहाः' इति । अन्यत्र शुभफलानि मुक्ताफलानि तत्प्रदाः शुक्तयो मुक्तास्फोटाः ताभिर्युक्ताः । 'मुक्तास्फोटे हयावर्ते शुक्तिः शङ्खकपालयोः' इति यादवः । संपन्नाः समग्रा देवमणयो निगालावर्ताः, कौस्तुभादिदिव्यमणयश्च येषां ते 'आवर्तो रोमजो देवमणिस्त्वेष निगालजः। निगालस्तु गलोद्देशे सकृत्' इति वैजयन्ती । भृताः पूर्णा रन्ध्रभागाः पार्श्वदेशाः, निम्नप्रदेशाश्च येषां ते । अतिशयिता रोचमानाः कण्ठावर्ता येषां तेऽतिरोचमानाः । कण्ठजो रोचमानश्च स्वामिसौभाग्यवर्धनः' इति वैजयन्ती । अन्यत्र त्वत्यन्तं दीप्यमाना इत्यर्थः । ऊर्मिभिर्गतिविशेषैर्वीचिभिश्च आपतन्त आधावन्तः । 'पङ्क्तीकृतानामश्वानां नमनोन्नमनाकृतिः । अतिवेगसमायुक्तो गतिरूर्मिरुदाहृता ॥' इति वैजयन्ती । ईदृशोऽश्वाः पयोधय इव तूर्णं वसुमतीं प्यधुः छादयन्ति स्म ।

'अपिधानतिरोधानपिधानाच्छादनानि च' इत्यमरः । अपिपूर्वाद्दधातेर्लुङ् । 'वष्टि