पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/१४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११७
पञ्चमः सर्गः ।

हासं करोतीति तत्करः सन् । 'कृञो हेतु-' (३।२।२०) इत्यादिना टप्रत्ययः । तावत्तदवधि प्रखरं भृशमुल्ललयांचकार उत्पपात । यावत् चलात् स्थानचलितादासनात् पल्ययनात् विलोलोऽपसृतस्तस्मान्नितम्बबिम्बाद्विस्रस्तं वस्त्रं यस्मिन्कर्मणि तद्यथा तथा अवरोधवधूः पपात । स्वभावोक्तिः ॥ ७ ॥

  शैलोपशल्यनिपतद्रथनेमिधारा-
   निष्पिष्टनिष्ठुरशिलातलचूर्णगर्भाः।
  भूरेणवो नभसि नद्धपयोदचक्रा-
   श्चक्रीवदङ्गरुहधूम्ररुचो विस्स्रुः॥८॥

 शैलेति ॥ शैलस्य रैवतकाद्रेपशल्यं प्रान्तम् । यद्यपि 'ग्रामान्त उपशल्यं स्यात्' इत्यमरः, तथाप्युपचाराददोषः । तत्र निपततां धावतां रथानां नेमयः चक्रान्ताः । 'चक्रं रथाङ्गं तस्यान्ते नेमिः स्त्री स्यात्प्रधिः पुमान्' इत्यमरः । तासां धाराभिर्निष्पिष्टानां चूर्णितानां निष्ठुरशिलातलानां चूर्णो गर्भे येषां ते तथोक्ताः । नभसि नद्धानि पयोदचक्राणि पयोदाकारमण्डलानि यैस्ते चक्रवद्भ्रमणमस्यास्तीति चक्रीवान् गर्दभः । 'चक्रीवन्तस्तु बालेया रासभा गर्दभाः खराः' इत्यमरः । 'आसन्दीवदष्टीवच्चक्रीवत्-' ( ८।२।१२) इत्यादिना साधुः । तस्याङ्गरुहाणि रोमाणि तद्वद्धूम्ररुचो कृष्णलोहितवर्णाः । 'धूम्रधूमलौ कृष्णलोहिते' इत्यमरः । भूरेणवो विसस्त्रुः प्रसृताः ॥ ८॥

  उद्यत्कृशानुशकलेषु
   खुराभिघाताभ्दूमीसमायतशिलाफलकाचितेषु ।
  पर्यन्तवर्त्मसु विचक्रमिरे महाश्वाः
   शैलस्य दर्दुरपुटानिव वादयन्तः ॥९॥

 उद्यदिति ॥ खुराः शफानि । 'शफं क्लीवे खुरः पुमान्' इत्यमरः । तेषामभिघातादुद्यन्तः कृशानुशकलाः स्फुलिङ्गा येभ्यस्तेषु । टङ्कप्रायाः खुरा इति भावः । भूम्यां समानि समतलान्यायतानि च यानि शिलाः फलकानीव शिलाफलकानि तैराचितेष्वास्तृतेषु शैलस्य पर्यन्तवर्त्मसु प्रान्तमार्गेषु महाश्वा दर्दुराणां वाद्यविशेषाणां पुटान् मुखानि वादयन्त इव विचक्रमिरे जग्मुः । पादन्यासैस्तादृशं शब्दमकुर्वन्नित्यर्थः । 'वेः पादविहरणे' (१।३।४१) इत्यात्मनेपदम् । 'दर्दुरस्तोयदे भेके वाद्यभाण्डाद्रिभेदयोः' इत्यमरः । उत्प्रेक्षालंकारः ॥ ९ ॥

  तेजोनिरोधसमतावहितेन यन्त्रा
   सम्यक्कशात्रयविचारवता नियुक्तः।
  आरट्टजश्चटुलनिष्ठुरपातमुच्चैश्चित्रं
   चकार पदमर्धपुलायितेन ॥१०॥

 तेज इति ॥ तेजो नाम दर्पापरनामा सत्त्वगुणविकारः प्रकाशकोऽन्तःसारवि-