पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/१४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११४
शिशुपालवधे

पञ्चमः सर्गः ।

  इत्थं गिरः प्रियतमा इव सोऽव्यलीकाः
   शुश्राव सूततनयस्य तदा व्यलीकाः ।
  रन्तुं निरन्तरमियेष ततोऽवसाने
   तासां गिरौ च वनराजिपटं वसाने ॥१॥

 इत्थमिति ॥ स हरिरित्थमनेन प्रकारेण । 'इदमस्थमुः' (५।३।२४) इति थमुप्रत्ययः । अव्यलीका अप्रियरहिताः । 'व्यलीकं त्वप्रियेऽनृते' इत्यमरः । प्रियतमाः प्रेयस्य इव स्थिताः । कान्तासंमिता इत्यर्थः । व्यलीका विगतानृताः सत्यः सूततनयस्य सारथिकुमारस्य दारुकस्य गिरः तदा शुश्राव । ततः श्रवणानन्तरं तासां गिरामवसाने समाप्तौ निरन्तरं नीरन्धं वनराजिरेव पटस्तं वसाने आच्छादयति । 'वस आच्छादने' इति धातोः कर्तरि लटः शानजादेशः । गिरौ रैवतकाद्रौ रन्तुं क्रीडितुमियेष । तत्र वसतिं कर्तुमिच्छति स्मेत्यर्थः । उपमायमकयोः संसृष्टिः । सर्गेऽस्मिन्वसन्ततिलका वृत्तम् । 'उक्ता वसन्ततिलका तभजा जगौ गः' इति ॥१॥

  तं स
   द्विपेन्द्रतुलितातुलतुङ्गशृङ्गमभ्युल्लसत्कदलिकावनराजिमुच्चैः ।
  विस्ताररुद्धवसुधोऽन्वचलं चचाल
   लक्ष्मीं दधत्प्रतिगिरेरलघुर्बलौघः ॥२॥

 तमिति ॥ कदल्य एव कदलिकाः वैजयन्त्यो रम्भातरवश्च । 'कदली वैजयन्त्यां च रम्भायां हरिणान्तरे' इति विश्वः । अभ्युल्लसन्त्यः कदल्यो वैजयन्त्यो वनराजय इव यस्य सः, अन्यत्र रम्भावनपङ्क्तयो यस्य तमिति योज्यम् । उच्चैरुन्नतः विस्तारेण रुद्धवसुधो व्याप्तभूमिः । अत एव प्रतिगिरेलक्ष्मीं दधत् । स्वयमप्यन्यो गिरिरिव स्थित इत्यर्थः । अलधुर्महान् स बलौघः सेनासङ्घो द्विपेन्द्रैस्तुलितान्यतुलान्यप्रतिमानि द्विपेन्द्रव्यतिरिक्तप्रतिमारहितान्युत्तुङ्गशृङ्गाणि यस्य तं तथोक्तमन्वचलं रैवतकमनु चचाल । तं प्रति ययावित्यर्थः । 'अनुर्लक्षणे' (१।४।८४) इति कर्मप्रवचनीयत्वात्तद्योगे द्वितीया । अत्र प्रतिगिरेः कस्यचिदप्रसिद्धत्वात् गिरिधर्मयोगी बलौघः प्रतिगिरेर्लक्ष्मीमिव लक्ष्मीं दधातीति निदर्शनामुखेन प्रतियोगित्वेनोत्प्रेक्ष्यते इत्युत्प्रेक्षैवेयं श्लेषानुप्राणितेति संकरः ॥ २ ॥

  भास्वत्करव्यतिकरोल्लसिताम्बरान्ताः
   सापत्रपा इव महाजनदर्शनेन ।
  संविव्युरम्बरविकाशि चमूसमुत्थं
   पृथ्वीरजः करभकण्ठकडारमाशाः ॥३॥