व्रीडमसंमुखोऽपि रमणैरपहृतवसनाः
काञ्चनकंदरासु तरुणीरिह नयति रविः ॥६७॥
दर्पणेति ॥ इहाद्रौ रविर्दर्पणनिर्मलासु पुरः रौप्यभित्तिषु । काञ्चनकंदराग्रवर्तिरजतसानुषु पतिते संक्रान्ते घनं सान्द्रं यत्तिमिरं तन्मुष्णाति हरतीति तन्मुट् । क्विप् । तस्मिञ्ज्योतिषि स्वतेजसि काञ्चनकंदरासु मुहुः प्रतिफलति संमूर्च्छति सति रमणैरपहृतवसनास्तरुणीरसंमुखोऽपि कंदरानभिमुखोऽपि व्रीडं त्रपाम् । यद्यपि 'गुरोश्च हलः' (३।३।१०३) इति स्त्रियामप्रत्ययः । अत एव मन्दाक्षं हीस्त्रपा व्रीडा' इत्यमरः । तथापि तत्र स्त्रीत्वाविवक्षायां बाहुलकत्वान्नपुंसकत्वं च । अत एव 'अविधौ गुरोः स्त्रियां बहुलविवक्षा' इति वामनः । नयति प्रापयति । 'नीवह्योर्हरतेश्चैव' इति द्विकर्मकता । यस्मिन् सुवर्णकंदरासु क्रीडार्थं प्रविष्टाः स्त्रियोऽन्धकार इति कृत्वा पुरुषैरपहृतवस्त्राः सत्यः । पुरःस्थितरौप्यभित्तितेजसामन्तःप्रतिबिम्बवत्प्रकाशे सति सलज्जा इति भावः । अत्र काञ्चनकंदराणामसंमुखार्कज्योतिःप्रतिफलनासंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिः । वंशपत्रपतितं वृत्तम् । 'दिङ्गुनि वंशपत्रपतितं भरनभनलगैः' इति लक्षणात् ॥ ६७ ॥
अनुकृतशिखरौघश्रीभिरभ्यागतेऽसौ
त्वयि सरभसमभ्युत्तिष्ठतीवाद्रिरुच्चैः ।
द्रुतमरुदुपनुन्नैरुन्नमद्भिः सहेलं
हलधरपरिधानश्यामलैरम्बुवाहैः ॥१८॥
इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये यङ्के
रैवतकवर्णनं नाम चतुर्थः सर्गः ॥ ४ ॥
अनुकृतेति ॥ असावुच्चरुन्नतोऽद्रिः रैवतकः त्वयि अभ्यागते सति अनुकृता शिखरौघाणां श्रीयैंस्तैस्तथोक्तैः । शिखरौघभ्रमकारिभिरिति भावः । अत एवात्र श्रीरिव श्रीरिति निदर्शनया भ्रान्तिमदलंकारो व्यज्यते । द्रुतमरुता शीघ्रमारुतेनोपनुन्नैः प्रेरितैः अत एव सहेलं सलीलमुन्नमद्भिरुत्पतद्भिः । धरतीति धरः । पचाद्यच् । हलस्य धरो हलधरो बलभद्गः तस्य परिधानान्यम्बराणि तद्वच्छ्यामलैः श्यामैरम्बुवाहैर्निमित्तेन सरभसमभ्युत्तिष्ठतीव प्रत्युत्थानं करोतीवेति क्रियानिमित्ता क्रियास्वरूपोत्प्रेक्षा । विशिष्टमेघोन्नमनक्रियया प्रत्युत्थानक्रियोत्प्रेक्षणात् सा चोक्तनिदर्शनानुप्राणितेति संकरः । शाब्दस्तु वृत्त्यनुप्रासः । मालिनी वृत्तम् । “ननमयययुतेयं मालिनी भोगिलोकैः” इति ॥ ६८ ॥
इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचिते
शिशुपालवधकाव्यव्याख्याने सर्वङ्कषाख्ये चतुर्थः सर्गः ॥ ४ ॥