पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/१३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०९
चतुर्थः सर्गः ।

 या बिभर्ति कलवल्लकीगुणवानमानमतिकालिमाऽलया।
 नात्र कान्तमुपगीतया तया स्वानमा नमति कालिमालया ॥५७॥

 येति ॥ अत्राद्रौ अत्यत्यन्तः कालिमा कार्ष्ण्यं यस्याः साऽतिकालिमा । अतिश्या- मेत्यर्थः । न विद्यते लयो लयनं क्वचिदवस्थानं यस्याः सा अलया। भ्रमन्ती- त्यर्थः । अत एव सस्वनेति भावः । या अलिमाला कलोऽव्यक्तमधुरः वल्लकीगुण- स्वानस्य वीणातन्त्रीशब्दस्य मानमुपमानं विभर्ति । तन्त्रीवद्ध्वनतीत्यर्थः । उपमालं- कारः । उपगीतया समीपे गातुं प्रवृत्तयैव, न तु पूर्वं गायन्त्येवेति भावः । 'आदि- कर्मणि क्तः कर्तरि च' (३।४।७१) इति क्तः । तयाऽलिमालया भृङ्गावल्या स्वानमा सुखेनानमयितुमाक्रष्टुं शक्या 'ईषद्दुस्' (३।३।१२६) इत्यादिना स्वल्प- त्ययः । का वा स्त्री कान्तं प्रियं न नमति । सर्वापि मानं विहाय कान्तं सद्यः प्रणमत्येव, तथोद्दीपकत्वाद्गानस्येत्यर्थः । रथोद्धता वृत्तम् । 'रो नराविति रथोद्धता लगौ' इति लक्षणात् ॥ ५७ ॥

  सायं शशाङ्ककिरणाहतचन्द्रकान्त-
   निस्यन्दिनीरनिकरेण कृताभिषेकाः ।
  अर्कोपलोल्लसितवहिभिरह्नि तप्ता-
   स्तीव्रं महाव्रतमिवात्र चरन्ति वप्राः ॥ ५८॥

 सायमिति ॥ इहाद्रौ वप्राः सानवः । 'वप्रोऽस्त्री सानुमानयोः' इत्यमरः । सायं रात्रौ शशाङ्ककिरणैराहतेभ्यश्चन्द्रकान्तेभ्यो निस्यन्दिना प्रस्राविणा नीरनि- करेण जलपूरेण कृताभिषेकाः कृतस्नानाः । अह्नि अर्कोपलेभ्यः सूर्यकान्तेभ्य उल्लसि- तैरुत्थितैर्वह्निभिस्तप्ताः सन्तस्तीव्रमुग्रं दुश्चरं महाव्रतं महातपश्चरन्तीवेत्युत्प्रेक्षा॥५०॥

  एतस्मिन्नधिकपयाश्रियं वहन्त्यः
   संक्षोभं पवनभुवा जवेन नीताः।
  वाल्मीकेररहितरामलक्ष्मणानां
   साधर्म्यं दधति गिरां महासरस्यः ॥ ५९॥

 एतस्मिन्निति ॥ एतस्मिन्नद्रौ अधिकपयःश्रियमधिकां जलसमृद्धिं वहन्त्यः, अन्यत्र तु अधिकाः कपयः सुग्रीवादयो वर्ण्यत्वेन यासु ताः अधिकपयः श्रियं गुणालंकारादिशोभां वहन्त्यः । पवनाद्भवतीति पवनभूस्तेन पवनभुवा वायुजन्येन जवेन वेगेन संक्षोभं चलनं नीताः, अन्यत्र तु जवेन जविना । 'जवो जविनि वेगे स्यात्' इति विश्वः । पवनभुवा हनुमता संक्षोभमौद्धत्यंं नीताः । हनुमद्वेगवर्ण- नया प्रागल्भ्यं नीता इत्यर्थः । वाक्पक्षे सर्वत्र षष्ट्या विपरिणामः कार्यः । महास- रस्यो महासरांसि अरहिताववर्जितौ रामलक्ष्मणौ याभिस्तासाम् , अन्यत्र तु रामो रमणः अरहितरामा अवियुक्तरामाः लक्ष्मणाः सारसयोषितो यासु ताः । केचि. त्त्वरहितरामा अवियुक्तस्त्रीकाः लक्ष्मणाः सारसा इति पुंपक्षिपरत्वेन व्याचक्षते ।

तेषां 'हंसस्य योषिद्वरटा सारसस्य तु लक्ष्मणा' । 'लक्ष्मणौषधिसारस्योः' इत्याद्य-


शिशु० १०