पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/१३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०८
शिशुपालवधे

बलाहकततिष्वारोप्यमाणानां जवनिकानां मुदं जनयन्निति प्रकृतोपयोगिवर्णनात् परिणामालंकारः । 'आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणामः' इति लक्षणात् । रूपके तूपरञ्जनमात्रमिति भेदः । जलोद्धतगतिर्वृत्तम् । 'रसैर्जसजसा जलोद्धतगतिः' इति लक्षणात् ॥ ५४ ॥

  मैत्र्यादिचित्तपरिकर्मविदो विधाय
   क्लेशप्रहाणमिह लब्धसबीजयोगाः।
  ख्यातिं च सत्त्वपुरुषान्यतयाधिगम्य
   वाञ्छन्ति तामपि समाधिभृतो निरोद्धुम् ॥५५।।

 मैत्रीति ॥ इहाद्रौ समाधिं योगं बिभ्रतीति समाधिभृतो योगिनः । मैत्रीकरुणा-मुदिता-उपेक्षेति चतस्रश्चित्तवृत्तयः । तत्र पुण्यकृत्सु मैत्री । दुःखिषु करुणा । सुखिषु मुदिता अनुमोदनम् । पापिषु उपेक्षा । मैत्री आदिर्येषां तानि चित्तस्य परिकर्माणि प्रसाधकानि । शोधकानीत्यर्थः । तानि विन्दन्ति लभन्ते इति तद्विदस्तद्भाजः तैः । क्षीणान्तःकरणमला इत्यर्थः । अत एव क्लेशप्रहाणं विधाय । 'अविद्यास्मितारागद्वेषाभिनिवेशाः पञ्च क्लेशाः' । तत्रानित्येषु नित्यत्त्वाभिमानः, अनात्मनि च देहेन्द्रियादावात्मधीरित्यादिविभ्रमोऽविद्या । अस्मिता अहंकारः । रागोऽभिमतविषयाभिलाषः । द्वेषोऽनभिमतेषु रोषः । अभिनिवेशः कार्याकार्येष्वाग्रहः । ते हि पुरुषं क्लिश्यन्तीति क्लेशाः क्लेशहेतवः । पचाद्यच् । तेषां प्रहाणं क्षयः । 'कृत्यचः' (८।४।२९) इति णत्वम् । तद्विधाय । क्लेशान् हित्वेत्यर्थः । अतो लब्धः सबीजः सावलम्बनो योगो यैस्ते लब्धसबीजयोगाः सन्तः । आलम्बनमेव व्यनक्ति । सत्त्वेति । सत्त्वपुरुषयोः प्रकृतिपुरुषयोरन्यतयाऽन्यत्वेन मिथोभिन्नत्वेन ख्यातिं, ज्ञानं चाधिगम्य । प्रकृतिपुरुषौ भिन्नाविति ज्ञात्वेत्यर्थः । 'प्रकृतिपुरुषयोविवेकाग्रहणात् संसारः । विवेकग्रहणान्मुक्ति रिति सांख्याः । अथ तां ख्यातिमपि निरोढुं निवर्तयितुं वाञ्छन्ति वृत्तिरूपाम् । तां निवर्त्य स्वयंप्रकाशतयैव स्थातुमिच्छन्तीत्यर्थः । 'प्रकृतावुपरतायां पुरुषस्वरूपेणावस्थानं मुक्तिः' इति सांख्यसिद्धान्तः । न केवलं भोगभूरियं, किंतु मोक्षक्षेत्रमपीति भावः ॥ ५५॥

  मरकतमयमेदिनीपु भानो-
   स्तरुविटपान्तरपातिनो मयूखाः ।
  अवनतशितिकण्ठकण्ठलक्ष्मी-
   मिह दधति स्फुरिताणुरेणुजालाः ॥५६ ॥

 मरकतेति ॥ इहाद्रौ मरकतानां विकारा मरकतमय्यस्तासु मेदिनीषु । 'स्त्रियाः पुंवत्-' (६३३४) इत्यादिना पुंवद्भावः । तरूणां विटपाः पल्लवाः तेषामन्तरैस्वकाशैः पतन्तीति तथोक्ताः । विटपः पल्लवे षिङ्गे विस्तारे स्तम्भशाखयोः' इति

विश्वः । स्फुरितानि अणुरेणूनां सूक्ष्मरजसां जालानि येषु ते भानोर्मयूखाः अवनतस्य शितिकण्ठकण्ठस्य मयूरकंधराया लक्ष्मीं दधतीति निदर्शनालंकारः । पुष्पिताग्रा वृत्तम्॥५६॥