पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/१३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०७
चतुर्थः सर्गः ।

  आच्छाद्य पुष्पपटमेष महान्तमन्त-
   रावर्तिभिर्गृहकपोतशिरोधराभैः ।
  स्वाङ्गानि धूमरुचिमागुरवीं दधानै-
   र्धूपायतीव पटलैर्नवनीरदानाम् ॥ ५२ ॥

 आच्छाद्येति ॥ एषोऽद्विमहान्तं पुष्पाण्येव पट इति रूपकं तमाच्छाद्य अन्तः पटाभ्यन्तर आवर्तिभिरभीक्ष्णं भ्रमद्भिः । 'बहुलमाभीक्ष्ण्ये (३।२।८१) इति णिनिः । गृहकपोतशिरोधराभा गृहपारावतकण्ठस्याभेवाभा येषां तैरित्युपमा । 'पारावते कपोतः स्यात्' इति विश्वः । अगुरोः कालागुरोरिमामागुरवीम् । 'कालागुर्वगुरुः स्यात्' इत्यमरः । धूमरुचिं धूमकान्तिम् । तत्सदृशी मित्यर्थः । अत एव निदर्शना । दधानैर्नवनीरदानां पटलैः स्वाङ्गानि धूपायतीव धूपैरिवाधिवासयतीवेत्युप्रेक्षा रूपकोपमानिदर्शनाभिरङ्गैः संकीर्यते । 'धूप संतापे' इति धातोः 'गुपूधूपविच्छिपणिपनिभ्य आयः' (३।१।२८) इत्यायप्रत्ययः ॥ ५२ ॥

  अन्योन्यव्यतिकरचारुभिर्विचित्रै-
   रत्रसन्नवमणिजन्मभिर्मयूखैः ।
  विस्मेरान् गगनसदः करोत्यमुष्मि-
   न्नाकाशे रचितमभित्ति चित्रकर्म ॥ ५३॥

 अन्योन्येति ॥ अमुष्मिन्नद्रावन्योन्येषां व्यतिकरेण मिश्रणेन चारुभिः अत एव विचित्रैर्नानावणैरत्रस्यन्तः त्रासदोषेणादुष्यन्तः । 'त्रासो भीमणिदोषयोः' इति विश्वः । 'वा भ्राश-' (३।१७०) इत्यादिना वैकल्पिकः श्यन्प्रत्ययः । तेभ्यो नवमणिभ्यो जन्म येषां तैर्मयूखैराकाशे रचितमभित्ति अकुड्यम् । अनाधारमित्यर्थः । चित्रकर्म कर्तृ । गगनसदः खेचरान् विस्मेरान् विस्मयशीलान् करोति । 'नमिकम्पि-' (३।२।१६७) इत्यादिना रप्रत्ययः । अत्र मणिमयूखेषु खे चित्रकर्मभ्रान्तिमतामेवाभित्तिचित्रकर्मेत्यकारणकार्योत्पत्तिवर्णनाभान्तिमदलंकारोत्थापिता विभावनेति संकरः । 'कारणेन विना कार्यस्योत्पत्तिः स्याद्विभावना' इति । प्रहर्षिणी वृत्तम् ॥ ५३॥

  समीरशिशिरः शिरःसु वसतां
   सतां जवनिका निकामसुखिनाम् ।
  बिभर्ति जनयन्नयं मुदमपा-
   मपायधवला बलाहकततीः॥५४॥

 समीरेति ॥ समीरेण मारुतेन शिशिरः शीतलः शिरःसु शिखरेषु वसतां निकामसुखिनामत्यन्तसुखिनां सतां पुण्यवतां मुदं जनयन्नयमद्विरपामम्भसामपायेनापगमेन धवला बलाहकततीर्मेघपङ्क्तीरेव जवनिकास्तिरस्करिणीर्बिभर्ति ।

अनावृतेष्वपि शिखरेषु क्रीडने मेधैरेवावरणतां संपाद्य मुदं जनयतीत्यर्थः ।। अत्र