पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/१४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११०
शिशुपालवधे

मरविश्वप्रकाशादिवाक्यगतनियतस्यर्थताविरोधः । तासां वाल्मीकेर्गिरां साधर्म्यं सादृश्यं दधति । अत्र पवनभुवा जवेनेत्यत्रैकवृन्तावलम्बिफलद्वयवदभग्नैकपादगतत्वेनार्थद्वयप्रतीतेरर्थश्लेषः । अन्यत्र पदभङ्गेनार्थद्वयप्रतीतेर्जतुकाष्ठवच्छब्दयोरेव मिथः श्लिष्टत्वाच्छन्दश्लेष इत्युभयसाहित्यादुभयश्लेषोऽयं प्रकृताप्रकृतगोचरः, उपमा त्वङ्गमिति संकरः ॥ ५९॥

  इह मुहर्मुदितैः कलभै रवः
   प्रतिदिशं क्रियते कलभैरवः ।
  स्फुरति चानुवनं चमरीचयः
   कनकरत्नभुवां च मरीचयः ॥६०॥

 इहेति ॥ इहाद्रौ मुदितैरिच्छाविहारसंतुष्टैः कलभैः करिपोतैः कलभः करिशावकः' इत्यमरः । दिशि दिशि प्रतिदिशं । यथार्थेऽव्ययीभावः । 'अव्ययीभावे शरत्प्रभृतिभ्यः' (५।४।१०७) इति समासान्तोऽच्प्रत्ययः। कलश्चासौ भैरवश्व कलभैरवो मधुरभीषणः । विशेषणयोरपि कुपाणिखञ्जवदैच्छिकोपसर्जनत्वविवक्षया विशेषणसमासः । रवो बृंहणध्वनिर्मुहुः क्रियते । अनुवनं वने वने चमरीचयः चमरीमृगसङ्घः स्फुरति । किंच कनकरत्नानां या भुवस्तासां मरीचयः किरणाश्च स्फुरन्ति । समृद्धिमद्वस्तुवर्णनादुदात्तालंकारे यमकस्याभ्युञ्चयः ॥ ६० ॥

  त्वक्साररन्ध्रपरिपूरणलब्धगीति-
   रस्मिन्नसौ मृदितपक्ष्मलरल्लकाङ्गः।
  कस्तूरिकामृगविमर्दसुगन्धिरेति
   रागीव सक्तिमधिकां विषयेषु वायुः ॥ ६१॥

 त्वगिति ॥ अस्मिन्नद्रौ त्वचि सारो येषां ते त्वक्सारा वंशाः । 'वंशे त्वक्सारकर्मारत्वचिसारतृणध्वजाः' इत्यमरः । तेषां रन्ध्राणि तेषां परिपूरणेन ध्मापनेन लब्धा गीतिर्गानसुखं येन सः । मृदितानि संमृष्टानि पक्ष्मलानि लोमशानि रल्लकानां कम्बलमृगाणां, कम्बलानां वाङ्गानि शरीराणि येन सः । 'रल्लकः कम्बलमृगे कम्बले परिकीर्तितः' इति वैजयन्ती । एतेन स्पर्शसुखमुक्तम् । कस्तूरिकामृगाणां विमर्दैन संघर्षेण सुगन्धिः शोभनगन्धः । यद्यपि गन्धस्यत्वे तदेकान्तग्रहणं कर्तव्यमित्युक्तम् , तथापि 'निरङ्कुशाः कवयः' इत्यपर्यनुयोगः । असावेवंभूतो वायू रागीव कामीव विषयेषु प्रदेशेषु च । 'विषयः स्यादिन्द्रियार्थे देशे जनपदेऽपि च' इति विश्वः । अधिकां सक्तिं व्यासक्तिमेति गच्छति ॥ ६१ ॥

  प्रीत्यै यूनां व्यवहिततपनाः
   प्रौढध्वान्तं दिनमिह जलदाः।
  दोषामन्यं विदधति सुरत-
   क्रीडायासश्रमशमपटवः ॥ ६२ ॥