पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/१३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०३
चतुर्थः सर्गः ।

रोधसि स्कन्धे शिखरेऽपि कटेरधः' इति विश्वः । घना विपुलाः कोमलाः श्लक्ष्णा गण्डशैला गण्डस्थलानि; स्थूलोपलाश्च यासां ता नार्योऽनुरूपमिच्छासदृशं, आत्मसदृशं वाधिवासं भजन्ति । अत्र नारीणामधित्यकानां च प्रकृतत्वात्केवलप्रकृतगोचरा श्लेषोपस्थापिता तुल्ययोगिता । अत एवोभयविशेषणान्युभयत्र विभक्तिविपरिणामेन योज्यानि ॥ ४०॥

  अनतिचिरोज्झितस्य जलदेन चिर-
   स्थितबहुबुद्बुदस्य पयसोऽनुकृतिम् ।
  विरलविकीर्णवज्रशकला सकला-
   मिह विदधाति धौतकलधौतमही ॥४१॥

 अनतिचिरेति ॥ इहाद्रौ विरलं यथा तथा विकीर्णाः प्रसरणशीला वज्रशकलाः श्वेतहीरखण्डानि यस्यां सा धौता शुभ्रा कलधौतमही रजतभूमिः । 'कलधौतं रूप्यहेम्नोः' इति विश्वः।जलदेनानतिचिरोज्झितस्य तत्कालमुक्तस्य । शुभ्रस्येति भावः । चिरस्थिताश्विरस्थायिनो बहवश्व बुद्बुदा जलस्फोटा यस्मिंस्तस्य पयसोऽम्भसः सकलामनुकृतिं समग्रसादृश्यं विदधाति । अत्र मेघोज्झितजलस्य स्थिरबुद्बुदासंबन्धेऽपि संभावनया संबन्धोक्तेरतिशयोक्तिः । कुररीरुता वृत्तम् । कुररीरुता नजभजैर्लगयुक्' इति लक्षणात् ॥ ४१ ॥

  वर्जयन्त्या जनैः संगमेकान्तत-
   स्तर्कयन्त्या सुखं सङ्गमे कान्ततः ।
  योषयैष स्मरासन्नतापाङ्गया
   सेव्यतेऽनेकया संनतापाङ्गया ॥४२॥

 वर्जयन्त्येति ॥ एकान्तत एकान्ते । रहसीत्यर्थः । कान्ततः कान्तेन । प्रियेणेत्यर्थः । उभयत्रापि सार्वविभक्तिकस्तसिः । संगमे सति सुखं तर्कयन्त्या उत्प्रेक्षमाणया । विस्रब्धं विहारमाकाङ्क्षन्त्येत्यर्थः । अत एव जनैः सङ्गं वर्जयन्त्या । कुतः । स्मरणासन्नतापानि प्राप्तज्वराण्यङ्गानि यस्यास्तया स्मरासन्नतापाङ्गया । 'अङ्गगात्रकण्ठेभ्यश्चेति वक्तव्यम्' (वृत्तिवा०) इति विकल्पादिह पक्षे टाप् । संनतौ नम्रावपाङ्गौ यस्यास्तया संनतापाङ्गया स्मरतापात् कूणितनेत्रया अनेकया योषया।अनेकाभिर्योषाभिरित्यर्थः । जातावेकवचनम् । 'स्त्री योषिदबला योषा नारी सीमन्तिनी वधूः' इत्यमरः । एषोऽद्रिः सेव्यते । इच्छाविहारस्थानानीह सन्तीति भावः । स्रग्विणी वृत्तम् । 'रैश्चतुर्भिर्युता स्रग्विणी संमता' इति लक्षणात् ॥४२॥

  संकीर्णकीचकवनस्खलितैकवाल-
   विच्छेदकातरधियश्चलितुं चमर्यः ।
  अस्मिन् मृदुश्वसनगर्भतदीयरन्ध्र-
   नियंत्खनश्रुतिसुखादिव नोत्सहन्ते ॥४३॥