पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/१३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०४
शिशुपालवधे

 संकीर्णेति ॥ अस्मिन्नद्रौ संकीर्णा मिथः यंदष्टाः कीचका वेणुविशेषाः । "वेणवः कीचकास्ते स्युर्ये स्वनन्त्यनिलोद्धताः' इत्यमरः । तेषां वने स्खलितस्यैकवालस्यैकरोम्णो विच्छेदात् कातरा त्रास्ता धीर्यासां ताश्चमर्यो मृदुश्वसनो मन्दमारुतो गर्भे येषां तेभ्यस्तदीयरन्ध्रेभ्यः कीचकविवरेभ्यो निर्यतो निर्गच्छतः स्वनस्य श्रुत्या श्रवणेन यत्सुखं तस्मादिवेति हेतूत्प्रेक्षा । चलितुं नोत्सहन्ते । वस्तुतस्तु वालप्रियत्वादिति भावः । 'शकधृष्-' (३।४।६५) इत्यादिना तुमुन्प्रत्ययः ॥४३॥

  मुक्तं मुक्तागौरमिह क्षीरमिवाभ्रैः-
   र्वापीष्वन्तर्लीनमहानीलदलासु ।
  शस्त्रीश्यामैरंशुभिराशु द्रुतमम्भ-
   श्छायामच्छामृच्छति नीलीसलिलस्य ॥४४॥

 मुक्तमिति ॥ इहाद्वौ अन्तर्लीनानि महानीलदलानीन्द्रनीलविशेषखण्डानि यासु तासु । 'सिंहलस्याकरोद्भूता महानीलास्तु ते मताः' इति भगवानगस्त्यः । वापीषु दीर्घिकास्वभ्रैर्मेधैर्मुक्तं वृष्टं मुक्तागौरं मौक्तिकशुभ्रं अत एव क्षीरमिव स्थितम् । शस्त्री छुरिका । 'स्थाच्छस्त्री चासिपुत्री च च्छुरिका चासिधेनुका' इत्यमरः । 'बह्वादिभ्यश्च' (४।१।४५) इति ङीष् । शस्त्रीवच्छयामैरंशुभिरन्तर्गतेन्द्रनीलमरीचिभिराशु तत्क्षणमेव द्रुतं लोलितं सत् । छुरितमित्यर्थः । नीलीसलिलस्य नीलाख्यौषधिपत्ररसस्य । 'नीली काला क्लीतकिका' इत्यमरः । अच्छां छायां कान्तिमृच्छति । तत्सदृशीं छायां गच्छतीत्यर्थः । अतो निदर्शनालंकारः । स च मुक्तागौरं, क्षीरमिव, शस्त्रीश्यामैरिति चोपमात्रयेणान्तर्लीनमहानीलदलासु वापी- ष्विति पदार्थहेतुकं काव्यलिङ्गं तेनोत्थापितेनांशुभिर्द्रुतमिति तद्गुणोत्थापित इत्यङ्गा- ङ्गिभावेन संकरः । क्षीरमिवेत्यनेनेन्द्रनीलानां सौष्ठ्यं सूचितम् । 'क्षीरमध्ये क्षिपेन्नीलं क्षीरं चेन्नीलतां ब्रजेत् । इन्द्रनीलमिति ख्यातम्' इति लक्षणसंभवात् । तेनात्र नीलीरसोपमानेन तद्वर्णा एवेति सूचितम् । 'नीलीरसनिभाः केचिच्छंभु- कण्ठनिभाः परे' इत्यादिनाऽगस्त्येन रत्नशास्त्र एषामेकादशविधच्छायाभिधाना- दिति । मत्तमयूरं वृत्तम् । 'वेदै रन्ध्रैर्म्तौ यसगा मत्तमयूरम्' इति लक्षणात् ॥४४॥

 या न ययौ प्रियमन्यवधूभ्यः सारतरागमना यतमानम् ।
 तेन सहेह बिभर्ति रहः स्त्री सा रतरागमनायतमानम् ॥४५॥

 या नेति ॥ इहाद्रावन्यवधूभ्यः ख्यन्तरेभ्यः । 'पञ्चमी विभक्ते' (२।३।४२) इति पञ्चमी । सारतरं श्रेष्ठमागमनं यस्याः सा सारतरागमना । श्लाध्यसंगमेत्यर्थः । या स्त्री यतमानं स्वप्राप्त्यै प्रयतमानम् । प्रार्थयमानमित्यर्थः । 'यती प्रयत्ने' शानच् । प्रियं न ययौ । सा तथा प्रतिकूलापि स्त्री रहस्तेन प्रियेण सह अनायतमानमदीर्घरोषं यथा तथा रतरागं सुरताभिलाषं बिभर्ति । अयमतिमानवतीरपि सद्य एवोद्दीपय-

तीति भावः । दोधकवृत्तम् । 'दोधकवृत्तमिदं भभभा गौ' इति लक्षणात् ॥४५॥