पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/१३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०२
शिशुपालवधे

  विम्बोष्ठं बहु मनुते तुरंगवक्र-
   श्चुम्बन्तं मुखमिह किंनरं प्रियायाः।
  श्लिष्यन्तं मुहुरितरोऽपि तं निजस्त्री-
   मुत्तुङ्गस्तनभरभङ्गभीरुमध्याम् ॥ ३८ ॥

 बिम्बोष्ठमिति ॥ इहाद्रौ तुरंगस्य वक्रमिव वक्रं यस्य स तुरंगवक्रो देवयोनिविशेषः । सप्तम्युपमानपूर्वपदस्य बहुव्रीहिरुत्तरपदलोपश्चेत्युष्ट्रमुखवत् समासः । बिम्बकल्प ओष्ठो यस्य तं बिम्बोष्टमित्युपमालंकारः । 'ओत्वोष्टयोः समासे वा पररूपं वक्तव्यम्' (वा०) इत्योकारः । प्रियाया मुखं चुम्बन्तं किंनरं मानुषमुखमश्वाङ्गं देवयोनिविशेषं बहु गुरु यथा तथा मनुतेऽवबुध्यते । तुरंगवक्त्रस्य चुम्बनासंभवादिति भावः । इतरः किंनरोऽप्युत्तुङ्गस्तनभरेण यो भङ्गस्तस्माद्भीमध्यो यस्यास्तां निजस्त्रीं स्वस्त्रियम् । 'वाम्शसोः' (६|४|८०) इति विकल्पादियङादेशाभावः । मुहुः श्लिष्यन्तं मानुषाङ्गत्वादालिङ्गन्तं तुरंगवत्रं बहु यथा तथा मनुते । तुरंगवपुषः किंनरस्याश्लेषासंभवादिति भावः । दुर्लभं प्रियं भवतीति रहस्यम् । मध्यस्याभङ्गेऽपि भङ्गोक्तेरतिशयोक्तिरुपमया संसृज्यते । प्रहर्षिणीवृत्तमुक्तम् ॥३८॥

 यदेतदस्यानुतटं विभाति वनं ततानेकतमालतालम् ।
 न पुष्पितात्र स्थगितार्करश्मावनन्तताने कतमा लताऽलम् ३९

 यदिति ॥ अस्याद्रेरनुतटं तटेषु । विभक्त्यर्थेऽव्ययीभावः । तता विस्तृता अनेके बहवस्तमालास्तालाश्च यस्मिंस्तत्ततानेकतमालतालं यदेतत्पुरोवर्ति वनं विभाति स्थगितार्करश्मौ तिरोहितातपे अनन्ततानेऽपारविस्तारेऽत्र वने कतमा लता का वा लता अलमत्यन्तं न पुष्पिता । संजातपुष्पा न भवतीति शेषः । सर्वापि पुष्पितेत्यर्थः ॥ ३९ ॥

  दन्तोज्वलासु विमलोपलमेखलान्ताः
   सद्रत्नचित्रकटकासु बृहन्नितम्बाः ।
  अस्मिन् भजन्ति घनकोमलगण्डशैला
   नार्योऽनुरूपमधिवासमधित्यकासु ॥ ४०॥

 दन्तोज्ज्वलाखिति ॥ अस्मिन्नद्रौ दन्ता निकुञ्जाः, दशनाश्च । 'दन्तो निकुञ्जे दशने' इति विश्वः । तैरुज्वलासु रुचिरासु सदत्वैश्चित्राणि कटकानि सानूनि, वलयानि च यासां तासु । 'कटकं वलये सानौ' इति विश्वः । अधित्यकासूर्ध्वभूमिषु । 'भूमिरूमधित्यका' इत्यमरः । 'उपाधिभ्यां त्यकन्नासन्नारूढयोः' (५।२।३४) इत्यधिशब्दात्त्यकन्प्रत्ययः । विमलोपला उज्वलशिलाः, उज्वलमणयो वा मेखलाः काञ्झ्योः, नितम्बभूमयश्च । 'मेखला खड्गबन्धे स्यात्काञ्चीशैलनितम्बयोः' इति विश्वः । ताभिरन्ता रम्याः । 'मृताववसिते रम्ये समाप्तावन्त इष्यते' इति शब्दार्णवे । बृहन्तो नितम्बाः कटिपश्चाद्भागाः शिखराणि च यासां ताः । 'नितम्बो पाठा०-१ 'बिम्बौष्टं'.