पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/१२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९९
चतुर्थः सर्गः ।

पयोधरैर्मेघैः, स्तनैश्च । 'स्त्रीस्तनाब्दौ पयोधरौ' इत्यमरः। उपरुद्धा आवृताः निबद्धाः सततं सर्वदाऽसुमतां प्राणभृतामगम्यरूपा अत्युन्नतत्वाद्दुरारोहस्वरूपाः, अन्यत्र वृद्धत्वाद्गमनानर्ह विग्रहाः । 'त्यजेदन्त्यकुलोत्पन्नां वृद्धां स्त्रीं कन्यकां तथा' इति गमननिषेधादिति भावः। परिणतास्तिर्यग्दन्तप्रहारिणो दिक्करिणो दिग्गजा यासु ताः परिणतदिक्करिकाः। 'तिर्यग्दन्तप्रहारस्तु गजः परिणतो मतः' इति हलायुधः । 'इनः स्त्रियाम्' (५।४।१५२) इति समासान्तः कप्प्रत्ययः । अन्यत्र परिणताः किणीभूता दिशो दन्तक्षतविशेषाः करिकाः, नखव्रणाश्च यासां ताः । 'दिग्दष्टे वर्तुलाकारे करिका नखरेखिका' इति वैजयन्ती । तटीर्बिभर्ति । अत्र प्रकृततटीविशेषणमहिम्ना अप्रकृतवृद्धाङ्गनाप्रतीतेः समासोक्तिः। पुष्पिताग्रा वृत्तमुक्तम् ॥ २९ ॥

  धूमाकारं दधति पुरः सौवर्णे
   वर्णेनाग्नेः सदृशि तटे पश्यामी ।
  श्यामीभूताः कुसुमसमूहेऽलीनां
   लीनामालीमिह तरवो बिभ्राणाः ॥ ३० ॥

 धूमेति ॥ इहाद्रौ पुरोऽग्रे वर्णेनाग्नेः सदृशि समाने । अग्निसमानवर्ण इत्यर्थः । सौवर्णे सुवर्णविकारे तटे कुसुमसमूहे लीनां स्थिताम् । 'ल्वादिभ्यः' (८।२।४४) इति निष्ठानत्वम् । अलीनां भृङ्गाणामालीमावलीं बिभ्राणा अत एव श्यामीभूता अमी तरवो धूमाकारं धूमसाम्यं दधति । त्वं पश्य । स्वर्णतटमग्निवद्भाति, श्यामास्तरवो धूमवद्भान्तीत्युपमा । जलधरमाला वृत्तम् । 'अब्ध्यङ्गैः* स्थाज्जलधरमाला म्भौ स्मौ' इति लक्षणात् ॥ ३० ॥

  व्योमस्पृशः प्रथयता कलधौतभित्ती-
   रुन्निद्रपुष्पचणचम्पकपिङ्गभासः ।
  सौमेरवीमधिगतेन नितम्बशोभा-
   मेतेन भारतमिलावृतवद्विभाति ॥ ३१ ॥

 व्योमेति ॥ व्योमस्पृशोऽभ्रंकषाः उन्निद्रैर्विकसितैः पुष्पैर्वित्ता उन्निद्रपुष्पचणाः । `तेन वित्त-'(५।२।२६) इति चणप्प्रत्ययः । ते च ते चम्पकाश्च तद्वत् पिङ्गभासः पिङ्गवर्णाः कलधौतभित्तीः कनकतटीः । 'कलधौतं रौप्यहेम्नोः' इति विश्वः । प्रथयता प्रकटयता अत एव सौमेरवीं सुमेरुसंबन्धिनीं नितम्बशोभां कटकलक्ष्मीमधिगतेन प्राप्तवता । 'गत्यर्थाकर्मक-' (३।४।७२) इत्यादिना गमेः कर्तरि क्तः । एतेन रैवतकाद्रिणा भारतं भरतस्य राज्ञ इदं भारताख्यं वर्षं भूखण्डम् । 'स्याद्वृष्टौ लोकधात्वंशे वत्सरे वर्षमस्त्रियाम्' इत्यमरः ।इलावृतवदिलावृतवर्षमिव विभातीत्युपमा । नवखण्डस्य जम्बूद्वीपस्य हिमाद्रेर्दक्षिणभूखण्डं हैमवतापरनामकं भारतवर्षं सुमेरुयोगात् सौमेरवापराख्यं मध्यमखण्डमिलावृतवर्षम् । अत एव 'नाम्नेदं भारतं वर्षं हिमाद्रेस्तच्च दक्षिणे । तेन हैमवतं नाम परेष्वप्येवमुन्नयेत् ॥ इलावृतं सौमेरवं सुमेरोः परितो हि तत् ॥' इति वैजयन्ती ॥ ३१ ॥

  • [अब्ध्यष्टाभिर्जलधरमाला म्भौ स्मौ' इति वृत्तरत्नाकरपाठः, स एव साधीयान्.]