पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/१३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१००
शिशुपालवधे

 रुचिरचित्रतनूरुहशालिभिर्विचलितैः परितः प्रियकव्रजैः।
 विवधरत्नमयैरभिभात्यसाववयवैरिव जङ्गमतां गतैः ॥ ३२ ॥

 रुचिरेति ॥ असौ गिरिः रुचिरैरुज्ज्वलैः, चित्रैर्नानावणैः, तनूरुहैर्लोमभिः शालन्त इति तथोक्तैः परितः प्रचलितैः प्रसरद्भिः प्रियकाः कम्बलप्रकृतयो मृगविशेषाः । 'प्रियको रोमभिर्युक्तो मृदूच्चमसृणैर्धनैः' इति वैजयन्ती। तेषां व्रजैः समूहैः जङ्गमतां चरिष्णुतां गतैर्विविधरत्नमयैरवयवैः स्वाङ्गैरिव प्रतिभातीत्युत्प्रेक्षा । द्रुतविलम्बितं वृत्तम् ॥ ३२ ॥

 कुशेशयैरत्र जलाशयोषिता मुदा रमन्ते कलभा विकस्वरैः ।
 प्रगीयते सिद्धगणैश्च योषितामुदारमन्ते कलभाविकस्वरैः ॥ ३३ ॥

 कुशेशयैरिति ॥ अत्रादौ जलाशयोषिता जलाशयेषु हृदेषु उषिता वसन्तः । 'गत्यर्थाकर्मक-' (३।४।७२) इत्यादिना वसतेः कर्तरि क्तः । संप्रसारणम् ‘मतिबुद्धिपूजार्थेभ्यश्च' (३।२।१८८) इति चकाराद्वर्तमानार्थता । कलभास्त्रिंशद्वर्षकरिणः । त्रिंशद्वर्षस्तु कलभः' इति वैजयन्ती । विकस्वरैर्विकसनशीलैः । 'स्थेशभासपिसकसो वरच्' (३।२।१७५)। कुशेशयैः शतपत्रैः । 'शतपत्रं कुशेशयम्' इत्यमरः । मुदा प्रीत्या रमन्ते क्रीडन्ति । करिविहाराणां कमलाकराणामयमाकर इति भावः । किंच कला अव्यक्तमधुराः। विकारो मानसो भावः स प्रयोजनमेषां भाविकाः । उद्दीपका इत्यर्थः । कला भाविकाश्च स्वराः षड्जादयो येषां तैः कलभाविकस्वरैः सिद्धगणैः सुरसङ्घैः, योषितां स्वस्त्रीणामन्ते समीपे उदारमुच्चैः प्रगीयते च । भूस्वर्गोऽयमिति भावः ॥ ३३ ॥

  आसादितस्य तमसा नियतेर्नियोगा-
   दाकाङ्क्षतः पुनरपक्रमणेन कालम् ।
  पत्युस्त्विषामिह महौषधयः कलत्र-
   स्थानं परैरनभिभूतममूर्वहेन्ति ॥ ३४ ॥

 आसादितस्येति ॥ इहाद्रौ अमूर्महौषधयो नियतेर्नियोगादस्मिन्काले इदं भावीति दैवशासनात् । तमसान्धकारेण, तत्प्रायेण व्यसनेन वा आसादितस्याक्रान्तस्य पुनरपक्रमणेन पुनरावृत्त्या कालं समागमकालमाकाङ्क्षतः । पुनरागत्य संगन्तुमिच्छत इत्यर्थः । त्विषां पत्युः सूर्यस्य संबन्धि परैस्तेजोऽन्तरैः, पुरुषान्तरैश्चानभिभूतमतिरस्कृतमनुपहतं च कलत्रस्थानं कलत्रभूतानां त्विषां स्थानं स्थितिं वहन्ति । निर्वहन्तीत्यर्थः । स्त्रीणां स्त्रीष्वेव रक्षणं कार्यमिति भावः । यथा केनचिदापदि न्यासीकृतानि कलत्राणि संरक्ष्य कालान्तरे साधवस्तस्मै प्रयच्छन्ति तद्वदोषधयोऽपि त्विषस्त्विषां पत्युरर्पयन्तीत्यर्थः । एतच्च तासां सूर्यास्तसमये प्रज्वलनादुदये विपर्ययाञ्चोपचर्यते । अत्र विशेषणसाम्यादर्कादीनामापन्नादिसाम्यप्रतीतेः समासोक्तिरलंकारः ॥ ३४ ॥

पाठा०-१ 'भजन्ति'.