सामग्री पर जाएँ

पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/१२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९८
शिशुपालवधे

द्युतिभिर्भिदुराणि मिश्राण्यम्भांसि यासां ताः । नीलसलिला इत्यर्थः । इहाद्रौ सरितः कलिन्दस्याद्रेरपत्यं स्त्री कालिन्दी यमुना । 'कालिन्दी सूर्यतनया यमुना शमनस्वसा' इत्यमरः । तस्या जलैर्जनिता श्रीः शोभा यस्यास्तस्याः । तत्संगताया इत्यर्थः । सुरापगाया गङ्गाया वैदग्धीं शोभां श्रयन्ते भजन्ति । विदग्धस्य भावो वैदग्धी । ब्राह्मणादित्वात् 'गुणवचन-' (५।१।१२४) इत्यादिना ष्यञ्प्रत्ययः । 'षिद्गौरादिभ्यश्च' (४।१।४१) इति ङीष् । सोऽपि त्वस्य बाहुलकत्वादिह वैकल्पिकः । अत एव 'ष्यञः षित्करणादीकारो बहुलम्' इति वामनः । अत्र सितासितमणिगुणग्रहणात्सरितां यमुनासंगतगङ्गाशोभासादृश्याक्षेपात्तद्गुणोत्थापिता निदर्शना । प्रहर्षिणी वृत्तम् । 'म्नौ ज्रौ गस्त्रिदशयतिः प्रहर्षिणीयम्' ॥ २६ ॥

 इतस्ततोऽस्मिन्विलसन्ति मेरोः समानवप्रे मणिसानुरागाः ।
 स्त्रियश्च पत्यौ सुरसुन्दरीभिः समा नवप्रेमणि सानुरागाः ॥ २७ ॥

 इत इति ॥ मेरोः समानवप्रे तुल्यप्रस्थे अत एवास्मिन्नद्रावितस्ततो मणिसानुरागा रत्नतटकान्तयो विलसन्ति प्रसरन्ति । किंच नवं प्रेम यस्य तस्मिन्नवप्रेमणि पत्यौ अनुरागेण सह वर्तन्त इति सानुरागाः सुरसुन्दरीभिः समाः सरूपाः स्त्रियश्चेतस्ततो विसलन्ति क्रीडन्ति ।अन्योन्यमनुरागिणोऽनुरूपाश्चेह विलासिनस्तदनुरूपाणि च विहारस्थलानि सन्तीति भावः ॥ २७ ॥

  उच्चैर्महारजतराजिविराजितासौ
   दुर्वर्णभित्तिरिह सान्द्रसुधासवर्णा ।
  अभ्येति भसपरिपाण्डुरितस्मरारे-
   रुद्वह्निलोचनललामललाटलीलाम् ॥ २८ ॥

 उच्चैरिति ॥ इहाद्रौ सान्द्रया सुधया लेपविशेषेणामृतेन वा सवर्णा समानवर्णा । 'ज्योतिर्जनपद-' (६।३।८५) इत्यादिना समानस्य सादेशः । 'लेपभेदेऽमृते सुधा' इति वैजयन्ती । महारजतराजिविराजिता काञ्चनरेखाशोभिता असौ पुरोवर्तिनी उच्चैरुन्नता दुर्वर्णभित्ती रजतभित्तिः । 'महारजतकाञ्चने' इति,'दुर्वणं रजतं रूप्यम्' इति चामरः । भस्मना परिपाण्डुरितस्य स्मरारेरुद्वह्नि उद्गतार्चिलोचनमेव ललामं भूषणं यस्य तस्य ललाटस्य लीलां शोभामभ्येति भजतीति निदर्शनालंकारः । 'ललामं पुच्छपुण्ड्राश्वभूषाप्राधान्यकेतुषु' इत्यमरः ॥ २८ ॥

 अयमतिजरठाः प्रकामगुर्वीरलघुविलम्बिपयोधरोपरुद्धाः ।
 सततमसुमतामगम्यरूपाः परिणतदिक्करिकास्तटीर्बिभर्ति ॥ २९ ॥

 अयमिति ॥ अयं गिरिः अतिजरठा अतिकठिनाः, अतिजरतीश्च । 'जरठः कठिने जीर्णे' इति वैजयन्ती । प्रकामं गुर्वीः श्रेष्ठाः, स्थौल्याद्दुर्भराश्व प्रकामगुर्वीः । 'गुरुस्तु गीष्पतौ श्रेष्ठे गुरौ पितरि दुर्भरे' इति शब्दार्णवः । विस्पष्टपटुवत् 'मयूर व्यंसकादयश्च' (२।१।७२) इति समासः । अलघुभिर्विलम्बिभिर्लम्बमानैः