पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शिशुपालव ‘त्रासाकुल: परिपतन्–' (५।२६) (काव्यमालायां मुद्रितस्य ११४ पृष्ठे ) इत्यादिपद्यम्, ‘रम्या इति प्राप्तवतीः-१ ( ३१५३ ) ( काव्यमालायां मुद्रितस्य ११५ पृष्ठे ) इत्यादिपद्यं च शिशुपालवधादुदाहृतवान् । अथ च शिशुपालवधे (२।११२) माधो न्यासग्रन्थं स्मरतीति न्यासप्रणेतुर्जिनेन्द्रबुद्धिपादाचार्यादधस्तनः । गुर्जरदेशोद्भवोऽयं कविरिति पूर्वोद्धृतप्रबन्धेभ्यो लोकप्रथातश्च प्रतीयते । ग्रन्थान्ते च स्ववंशवर्णने माघकविना स्वपितामहस्य सुप्रभदेवस्याश्रयभूतः कश्चन तत्कालीनो महीपतिरपि वर्णितो यः प्रभावकचरितेऽपि स्मृतः । तत्र शिशुपालवधपुस्तकेषु धर्म- नाभ, धर्मनाथ, धर्मलाभ, चर्मलात, धर्मलात, धर्मदेव, वर्मलाख्य, वर्मलात, वर्म- नाम, निर्मलान्त, इति तन्नाम्नि नानाविधः पाठो दृश्यते । अतस्तद्विषये जोषमेव स्थातुमीहे । शिशुपालवधादन्यः कोऽपि ग्रन्थोऽस्य कवेर्नोपलब्धः । किंतु सुभाषि- तावलौ 'शीलं शैलतटात्पतत्वभिजनः संदत्यतां वह्निना माश्रौ जगति श्रुतस्य विफलक्लेशस्य नामाप्यहम् । शौर्ये वैरिणि वज्रमाशु निपतत्वर्थोऽस्तु मे सर्वदा येनैकेन विना गुणास्तृणबुसप्रायाः समस्ता अमी ॥' 'नारीनितम्वफलके प्रतिबध्यमाना हंसीव हेमरशना मधुरं ररास | तन्मोचनार्थमिव नूपुरराजहंसाश्चऋन्दुरातमुखरं चरणाव- लग्नाः ॥ एतच्छोकद्वयं शिशुपालवधेऽनुपलभ्यमानं वल्लभदेवेन औचित्यविचारच- र्चायां च 'बुभुक्षितैर्व्याकरणं न भुज्यते पिपासितैः काव्यरसो न पीयते । न विद्यया केनचिदुद्धृतं कुलं हिरण्यमेवार्जय निष्फलाः कलाः ॥ एतत्पद्यं तादृशमेव क्षेमेन्द्रेण माघनाम्ना समुद्धृतमस्तीत्यस्ति कश्चिदन्योऽपि ग्रन्थो माघकृत इत्यनुमीयते । काव्यस्यास्याद्यावधि ज्ञाताष्टीकाः, - ( १ ) वल्लभदेवकृता संदेहविषौषधाख्या, ( २ ) रङ्गराजकता, (३) एकनाथकृता, (४) चारित्रवर्धनकृता, (५) मल्लिनाथकृता सर्वंकषा, ( ६ ) भरतमल्लिककृता सुवोधा, (७) दिनकर मिश्रकृता सुबोधिनी, ( ८ ) गोपालकृता हसन्ती, एता अष्टौ सन्ति । एतासु मल्लिनाथकृता सर्वकषैव सर्वाङ्ग परि पूर्णा कैश्मीरदेशमपहायान्यत्र सर्वत्र लब्धप्रचारा विद्वद्भिराता च वर्तते । मल्लिना- थपण्डितश्चान्ध्रदेशे ख्रिस्ताब्दीयचतुर्दशशतक आसीदिति नवीनविदुषां निर्णयः । सर्वंकषासमेतमेतत्काव्यं कलिकाताकाश्यादिषु बहुशो मुद्रितमपि सर्वाङ्गपूर्णतां दर्श- नीयतां च न गतमिति पुनर्मुद्रणे मुख्यो हेतुः । तत्र १७६९ मिते शकाब्दे कलि- कातानगरे श्रीतारानाथतर्कवाचस्पति भट्टाचार्यादि विद्वद्वरैः संशोध्य मुद्रितं पुस्तकमादाय पुनरपि प्राचीनेन हस्तलिखितेन सर्वंकषापुस्तकेन संवाद्य तदाधारेणैतन्मुद्रणमकारि । अत्र च विंशसर्गान्ते सर्वेषु मुद्रितपुस्तकेषु प्रायो हस्तलिखितेष्वपि दुर्लभा श्लोकद्वयस्य सर्वंकषा, तदमे कविवंशवर्णनात्मक श्लोकपञ्चकस्य, पञ्चदशे सर्गे 'प्रक्षिप्ता एते' इति मन्यमानेन मलिनाथेनाव्याख्यातानां चतुस्त्रिंशच्छोकानां च वल्लभदेवकृता टीका भूयसा यत्नेन संपाद्य यथास्थानं निवेशिता । मन्मित्रराज गुरुपर्वणी करोपाहनारायणभट्टानां संग्रहादुपलब्धा १२९९ मिते शकाब्दे लिखितान्मूलशिशुपालवधपुस्तकादुपयुक्तानि 2 जयं लोको भर्तृहरेनीतिशतकेऽप्युपलभ्यते २ काश्मीरकैस्तु वल्लभदेव कृतटी कैवो- पयुज्यते.