पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उपोद्धातः । “इत्थमुद्दे जितवान्तस्तैनासौ निर्ममे बुधः । अन्यदुर्बोधसंबद्धां प्रस्तावाष्टकसंभृताम् ॥ ९५ ॥ रम्यामुपैमितिभवप्रपञ्चाख्यां महाकथाम् । सुबोधकवितां विद्वदुत्तमाङ्गविधूननीम् ॥ ९६ ॥” युग्मम् ॥ इत्यादि च सिद्धर्षिचरितं वर्तते । चरितान्ते च– “श्रीमत्सुप्रभदेव निर्मलकुलालंकारचूडामणिः श्रीमन्माघकवीश्वरस्य सहजः प्रेक्षापरीक्षानिधिः । तद्वृत्तं परिचिन्त्य कुग्रहपरिष्वङ्गं कथंचित्कलि- प्रागल्भ्यादपि संगतं त्यजत भो लोकद्वये शुद्धये ॥ १५५ ॥" इति पद्यमस्ति । एतत्प्रबन्धत्रयविलोकनेन शिशुपालवधकाव्यकर्ता माघकविः ख्रिस्ताब्दीयैकादश- शतकोत्तरार्धे मालवदेशं शासतो धारानगराधिपतेः श्रीभोजदेवस्य समकालीन आसी- दिति प्रतीयते । परमेतादृशे समय निर्णयादिव्यतिकरे भोजप्रबन्ध-प्रबन्धचिन्तामणि- प्रभावकचरितादयो न श्रद्धापथमध्यांसते । यतस्तत्रातिप्रतीतेषु बहुभिर्निर्णीतेषु विष- येष्वपि भूयान्विपर्ययः समुपलभ्यते ॥ माघकविस्तु ख्रिस्ताब्दीयनवमशतकात्कथमपि नार्वाचीनः । यतः कश्मीरेषु नवम- शतकोत्तरभागे वर्तमानः श्रीमदानन्दवर्धनाचार्यो ध्वन्यालोकस्य द्वितीयोद्दयोते- १ असौ सिद्धः. २ उप मितिभवप्रपञ्च कथा समाप्तौ (९६२) मितो ग्रन्थनिर्माण संवत्सरो लिखितः. एतदेवावलम्ब्य शार्मण्य देशवासी काटपण्डित: ( Dr. F. Klatt) माघकवेरपि सत्तां ख्रिस्ताब्दीय दशमशतकारम्भे स्थिरीकरोति । तद्देशीयो याकोबी पण्डितस्तु ( Prof. Jacobi) ‘We therefore cannot place Magha later than about the middle of the Sixth century' इति वदन्त्रिताब्दीयषष्ठशतकमध्यभागान्नार्वाचीनो माघकविरिति निश्चिनोति. याकोबीमतमेव ममापि संमतम् यतः प्रभावकचरितमपहाया- न्यत्र माघस्य शुभंकरः पितृव्य आसीत्सिद्धश्च पितृव्यपुत्र इत्यादि नोपलब्धम् केवलमिय किंवदन्त्येव. प्रभावकचरितं च जनश्रुत्याधारेण निर्मितमिति ग्रन्थारम्भे – 'बहुश्रुतमुनीशेभ्यः प्राग्ग्रन्थेभ्यश्च कानिचित् । उपश्रुत्यतिवृत्तानि वर्णयिष्ये कियन्त्यपि ॥” इति ग्रन्थकृत्स्वयमेव वदति. अथ च तारानाथ तर्कवाचस्पतिना वाचस्पत्ये कोषे माघपदव्याख्याने 'तावद्भा भारवे-- र्भाति यावन्माघस्य नोदय इत्युद्भटः' इति लिखितमस्ति, तत्र क्लाट पण्डितः 'अयं लोकः क्वचिदप्युद्भटग्रन्थे नोपलभ्यत' इति तारानाथमाक्षिपति, किंतुद्भट पदेन कश्मीर देशप्रसिद्धो जयापीडसभापतिभैट्टोद्भटस्तारानाथस्य न विवक्षितः, तेन तु ग्रन्थबहिर्भूतो-ज्ञातकर्तृनामकः श्लोक एवोद्भटपदेन व्यवह्रियते. तथा च तदीये वाचस्पत्य एव उद्भट पदव्याख्यान 'ग्रन्थवहि- र्भूते लोकप्रसिद्धेऽज्ञातकर्तृके श्लोके' तदीयं व्याख्यानमस्ति एतत्सर्व पर्यालोच्य शभ शार्मण्यपण्डितेन संतोष्टव्यम्.