पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उपोद्धातः । पाठान्तराणि च क्वचिद्दत्तानि । ग्रन्थान्ते चैकोनविंशसर्गस्थगो मूत्रिकामुरजचक्रबन्धादि- श्लोकानां चित्राणि, टीकायां मल्लिनाथेनोद्धृतानां ग्रन्थग्रन्थकर्तॄणां तत्तत्स्थलोखपूर्वकं नाममालां, ग्रन्थस्थनिखिलश्लोकानाम कारादिवर्णक्रमेणानुक्रमणीं च न्यस्तवानस्मि । शोधनसमये च जयपुरराजकीय पाठशालायां व्याकरणाध्यापकः पण्डित शिवदत्तशर्मा दाधीचः कतिपयस्थलेषु प्रायो व्याकरणविषयकं टिप्पणमुदृङ्कितवान् कृतवांच शोधनेऽपि यत्साहाय्यं तत्तदुपकारं मुहुः स्मरामि । एवमेतद्वन्थमुद्रणे प्रयत्नमास्थितस्यापि मम मतिमान्द्यादृष्टिदोषात्प्रमादाद्वा समुत्प नाननल्पानप्यवद्यानुपेक्ष्य काव्यगुणगौरवेणैव गुणैकपक्षपातिनो निर्मत्सरा विद्वांसस्तो- घमेष्यन्ति, भविष्यन्ति च परमेश्वरानुग्रहात्सफलसमीहिता इति भृशमाशास्ते जयपुर राजधानी । प्रथम अधिक भाद्रशुक्ल ५ संवत् १९४७. ७ विदुषामनुचरो दुर्गाप्रसादः । TODAS