पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३९
मंन्त्रशुद्धिप्रकारः॥
॥ मन्त्रशुद्धिंप्रकार॥

अथ मन्त्राणां दन्तताल्वोष्ठव्यापारजन्यमायिकाशुचिरूपनिर्हरणार्थ ऐश्वर्याधिकारि मलतिरोहितफलप्रदानसामर्यादिनां तेषां सामथ्योन्मील- नाएँच शुद्धिः कर्तव्या । तत्प्रकार उच्यते- हृद्यञ्जलिं बद्धा बिन्दून्तब्रह्नर- न्भ्रान्ताशीखन्तं ह्रस्वदीर्घप्लुतप्रणवादिनमोन्ततया क्रमेण त्रिवारं शनैर्गुल मन्त्रोच्चारणं कुर्यात् । ततो ब्रह्मङ्गादीनामपि तथैवोच्चारणं कुर्यात् । इत्थं मन्त्रशुद्रिविधाय तदनन्तरं परिवारदेवतासद्भावे तदर्चनं कुर्यात् । कथं परिवारदेवतासद्भावः सशक्तिक्रमैत्रलपूजने । इत्थं सूक्ष्मोक्तानि शुद्धकेवल मिश्राख्यान्यशक्तिकसशक्तिकसैौरादिचण्डान्ताशिवपूजन मंशुमदुक्तेन केवल- सहजमिश्रभेदेन प्रत्येकं त्रिविधानि । अंशुर्मति केवलं नामपरिवरदैवतार हितलिङ्गपूजनम् । सहजनाम वृषभगणेशस्कन्दपार्वतीरूिपपरिवारचतुष्टयस हितालिङ्गपूजनम् । मिथैनाम महेश्वरनृत्तमूर्ति दक्षिणामूर्यादिभिरपि स हितस्य लिङ्गस्य पूजनम् । एवं केवलशुद्धे सहशुद्धे मिश्रशुद्धे केवलकवले सहजकेवलं मिश्रकेवलं केवलमित्रं सहज़मित्रं मिश्रमिठं चेति नववि धानि पूजनानि भवन्ति । तत्र शिवपूजारम्भात्प्राकृ सूर्यपूजां तदनन्तरं च- ण्डपूजां च त्रिधाय लिङ्गं शक्तिं विना केवलं शिवमावाह्य परिवारदेवतार- हितस्य तस्य पूजनं केवलशुद्धम् । परिवारचतुष्टयसाहियेन प्रागुक्तपूजनं सहजशुद्धम् महेश्वरादिभिरपि सह प्रागुक्तपूजनं मिश्रशुद्धं । आद्यन्तयो- स्सूर्यादि चण्डपूणां विहाय लिङ्गं सशक्तिकं शिवमावाह्य परिवारार्चनं विना तत्पूजनं केवलकेवलम्। उक्तपूजनमेत्र परिवार चतुष्टयार्चनसाहतं संहजके- बलम् । महेश्वराद्यचीसहितं मिश्रकेवलम् । आद्यन्तयोस्सूर्यचण्डपूजा सहितं सशक्तिकंस्याशक्तिकस्यया परिवारदेवतारहितस्य लिङ्गं पूजनं केवल