तत्रयंकमः- अङ्गुष्ठनामिकादृष्टेन चक्षुषा मूलेन निरीक्ष्य मार्गे दृक्क्रियेच्छात्मके रर्कवह्निसोमनेत्रेः क्रमात् शुष्कं दग्धममृताप्लावितं । च भावयेत् । ततशुद्ध्यर्थं मस्रमन्त्रेण पताकया प्रोक्ष्य चिच्छक्त्यभिव्य क्युर्थ अस्रमन्त्रेणैव मध्यमांगुळ्या ताडयेत् । ततोवौषडन्तकवचेन तत्सर्वं विशेषार्थजलेन शर्कन का कुशपुष्पै रभ्युक्षन् ताडितात्पाषाणप्त द्वद्भि स्फुलिङ्गगदिवत्द्व्यजाता चिदाग्निस्फुलिङ्गाना मुन्नतिं ध्यायेत् । एवं निरी क्षणादिसंस्कारचतुष्टयेन द्रव्यजात मशुद्धेन मायारूपेण परित्यक्तं शुद्धचि च्छत्यात्मकं शिवयोग्यताहंभवति । ततस्सद्योजातेन गन्धं वामदेवेन वत्रं अघोरेणाभरणं तत्पुरुषेण नैवेद्य मशिानेन पुष्पं हृदयमन्त्रेणान्यानि शिवार्थद्रव्याणि आवरणपूजाद्यर्थद्रव्याणि चाभिमन्त्रयेत् । ततस्सर्व द्रव्यजात मन्त्रेण संरक्ष्य कवचेनावकुण्ठ्य वौषडन्तशक्तिमन्त्रेण धेनुमुद्रया ऽमृतीकृत्य शिवार्थं कांदेपत मेतत्सर्वं शिवमकमेवेति भावयन् गन्धपुष्पधूप- दीपैः हृदयाघ्रमन्लाभ्यां पूजयेत् । ततस्स्त्रशरीरस्यार्पजलबिन्दुमत्रेण नि- क्षिप्य स्त्रासने शिवासनायनम इति पुष्पन्दत्वा स्वदेहे शिवमूर्ति विन्यस्य फाले चन्दनतिलकं कृत्वा । स्त्रशिरसि पुष्पं स्वाहान्तमूलेन स्वशिरस्ये- वायंच दद्यात्(१)इत्यमात्मनि पशुबुद्धि व्यक्वाशिववन्निर्मलज्ञानक्रियशुद्भो ऽहमिति भावयन्नेवात्मानं पूजयेत् । इति द्रव्यशुद्धिः । यद्यप्यात्मशुद्धिः प्रागभिहिता । तथाऽपि पूजाकर्तृकतया द्रव्यान्तरवत्पूजोपकरणत्वेन प्रत्रेि ष्टस्य तस्य द्रव्यान्तरवदेवे गन्धादिभिः पूजयेदिति तदन्तद्रव्यशुद्धिः ।।
१. मूलमन्त्रं दशवारं जपेदित्य धिकं पुस्तकान्तरे वर्तते ।।