पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२९
अतंशतमः ।।

स्त्राहादिजातिषट्कयुक्तमेङ्गन्यासं च कुर्यात् । यस्यावसरोऽस्ति मतिक्षो भश्च नभवति । स श्रीकण्ठादिन्यासषडध्वन्यासादिकमपि कुर्यात् । एवं बविशुद्धि देहशुद्धिपूर्वकन्यस्तमन्त्रतनुस्वरूपेण विग्रहेण च शिवरूपतां प्रा प्तश्शिवार्चनयोग्यो भवति । नाशित्रश्शिवमर्चयेदित्यामनन्ति । एवं जीवदेह शुद्धिकरणाशक्तौ न्यासमात्नं कुर्यात् । न्यासस्यापि कृत्स्नस्य करणाशक्तौ दण्डन्यासमात्रं पडङ्गन्यासमानंवा कुर्यात् । तावतैव देहात्मनोश्शुल्या शिवरूपतापत्याच शिवार्चनयोग्योभवदेते हैं एवं कृताङ्गन्यासोऽन्तर्यागं कुर्यात् ॥

अतमः।

तस्यायं क्रमः~ अन्तर्युदयावकाशे दिब्यरत्नमयं . शिवार्चनमण्डपं मंनसा सङ्कल्प्य तत्र शिवार्चनोपयुक्तानि सर्वाणि द्रव्याणि मनसोपनीय विशोज्य द्वादशान्तस्थितचन्द्रमण्डलगळदमृतधारयाऽर्यपात्रादिपूरणं तत्सं- स्कारश्चक्रेवाद्वारपालाचनवधायवक्ष्यमाणप्रकारेणगणेशगुरुचन्दनानुज्ञाप्रार्थ नापूर्वकं माणिक्कवर्णनाभिकन्दसमुत्थितनीलवर्णनाळघातिधवळत्रणष्टदळ हृदयकमलकर्णिकाकारसंस्थितकुण्डलिनशक्तिरूपबिंद्वारमके पीछे श्रवणांगु- ष्ठसंयोगाधिगम्यनादरूपं दीपशिखाकारलिङ्गं विचिन्त्य पीठे वक्ष्यमाणप्र- कारेण शक्त्यादिशक्त्यन्तं शिवासनमभ्ययं लिङ्गशिवमूर्ति विद्यादेहं चाभ्य- थं तत्र परमशिवमावाहनादिक्रमेण ध्यात्वाऽन्तस्संस्कारैरभ्यर्य द्वादशान्त स्थितबहुळामृतधारयाभिषिच्य वस्त्राभरणादिभिः वैराग्यचन्दनेनचालंकृत्या हिंसापुष्पं समर्ये यामित्यादिप्रकारेण अहिंसेंद्रियनिग्रहक्षमादानज्ञानतप- स्सस्यभावरूपै रष्टभिः पुष्पैः अभ्यर्चयेत् । ततो मनसि पात्रे प्राणमग्नि मह रक्षशिखांच सङ्कल्प्य धूपं दद्यात् । शिवज्ञानमेत्र दीपं सङ्कल्प्य दद्यात्।