पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८
शिवार्चनाचन्द्रिकायाम्

मन्दिरं वृत्ताकारं रक्तवर्णशुद्धविद्यातत्वरमकं भावयन् भोगमोक्षकामः पूर्वद्वारे द्वारपालानर्चयेत् । कीर्तिविजयसौभाग्यकामः दक्षिणद्वारे केवलं मोक्षकामः पश्चिमद्वारे । उदग्द्वारेतु पूजा न कर्तव्या । सामान्यान् ध्यदकेन द्वारमस्त्रमन्त्रेण संप्रोक्ष्य बट्टिद्वारपालानचेचयेत् । तेच गणपव्या- दयः । तन्न द्वारस्योद्भोदुम्बरमुखे दक्षिणवामभागयोर्मध्येच गणपतिसरस्व ती महालक्ष्म्यः उपविष्टाः । वामदक्षिणव्यवस्था च देवमपेक्ष्य द्वारे प्रवि शन्तं पूजकमपेक्ष्य वा ग्राह्या । द्वारस्य बहिःप्रदेशे दक्षिणपाश्र्वे नन्दी दक्षिणपांखें एंव नन्दिन उत्तरभागे गङ्ग वामपाश्र्वे महाकाळः वामपार्श्व एव तस्य दक्षिणभागे यमुनाच स्थिताः । हां गणपतयेनमः । श्यामवर्ण ततोक्षसूत्रपाशाङ्कशान् पुष्करेण वीजापूरचे धारयन्तं गणपतिं पूजयामि ।। हांसरस्वत्यैनमः । श्वेतवर्णा मक्षमालापुस्तकधरां वीणावादनव्यापृतकरद्व यां सरस्त्रतीं पूजयामि । हां महालक्ष्म्यै नमः । श्रीफलकमलाभयवरधा रिणीं उभयपार्श्वस्थितगजयुगळहस्तोतृत हेमकुम्भामृत धाराभिषिच्यमानां महालक्ष्मीं पूजयामि । हां नन्दिनैनमः । अरुणजटामकुटधरं त्रिशूल- क्षमामतर्जनीमुद्रधारिणं स्थूलदेहं नन्दिनं पूजयामि । हां गङ्गायैनमः । धबळवणं मकवाहन ममृतकलशचामरधारिणीं गङ्गांपूजयामि । हां महा काळायनमः । कृष्णवर्ण दष्ट्राकराळभ्रकुटीभीषणस्थूलदेहं शूलकपाल मुद्रतर्जनीमुद्राधारिणं महाकाळु पूजयामि । हां यमुनायैनमः । श्याम घणं कूर्मशहनां चामरामृतकलशधारिणीं यमुनांपूजयामि । तत्तत्स्था नेषु पूजयेत् । सॉएते द्वारपालाः गङ्गायमुनेविना त्रिणेन्नः । सवेंचते द्वारसमानमुखः । शकैः कवाटोद्धाटनप्रार्थनापूर्वक मस्त्रमन्त्रेण कवाटमु द्वाव्य । हौंशिययनम इति नेत्रयोर्विन्यस्य । दिविस्थिताविन्नान् दिव्य ध्यानदृष्टिसन्त्रस्नान कृत्वा । नभोगतान् चिन्नान तजन्यंगुष्टोक्षिप्तपुष्पमन्त्र-