सामग्री पर जाएँ

पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. २२६ शिवार्चनाचन्द्रिकायाम् ': किन्तु तदनन्तरमर्चकेन करिष्यमाणं शिवस्य गन्धविलेपनादिकं तन्निर्मा- ल्वसंसिक्तगात्रेण कर्तुमयुक्तम्, गुरोरभ्यङ्गलपनं कृतवता तत्तैलबि- दुसिक्तगात्रेण शिष्येण गुरोर्गन्ध्रविलेपनादिकमिवेत्यभिप्रायेण । एवम न्यान्यप्येवं संभाक्तिानि वचनानि नेतव्यानि । तदित्थमग्निकार्यबुद्ध्या भुञ्जानै र्निवेदितशेषं भोक्तव्यं । दास्यबुद्ध्या भुंजाने निवेदितं भोक्त- व्यमिति व्यवस्था निरवद्या । तथाच वायुंसंहितायामपि दर्शितम् - 'ततस्स्वयच भुञ्जीत शुद्धमन्नं यथासुखम् । निवेदितंवा देवेशे तच्छेषं वा ·SSत्मशुद्धये ॥ श्रद्दधानो नलोभेन न चण्डाय समर्पितम् । गन्धमाल्यादि यच्छान्यत्तत्राप्येष समो विधिः ॥ नतुतत्र शिवोऽस्मीति बुद्धिं कुर्याद्विचक्षण' इति ॥ निवेदितं भुञ्जानः स्वहृत्पुण्डरीकान्तरवह्निमध्यगतशिवभावनया स्वस्य शिवाग्निकार्य रूप(१)शिवपूजाकर्तृतामभिप्रेत्य श्रीशिवोऽहमिति बुार्द्धं म कुर्यात् । किन्तु शिवदास्यबुद्धिमेव कुर्यादित्यर्थः । एवं निबोदतान्न- भोजनं कुर्बता प्राणाहुतयोऽपि निवेदितेनैव कर्तव्याः ' प्राणाग्निहोत्रं यः कुर्याच्चिवस्यैव प्रसादतः । अश्वमेधायुतं पुण्यं सिद्धे सिद्धे भवेन्नरः इति शिवपुराणवचनात् || भोजन विधिः ॥ अथभोजनविधिः|| स्वाहान्तैः स्वसूत्रोक्त मन्त्रैः हुत्वा तान्विसर्जयेत् । एवमग्नि- कार्य कर स्समाचान्त शिशभक्तैस्सदाचारस्सहितो हीनजाती- यानदीक्षितानेकपड़ी परिहरन् भोजनस्थानमासाद्य पीठे प्राच्यख उपविश्य चतुरश्रेण: हस्तमानेनाचार्यपुत्रसाधकसमयिक्रमेण चतुविकरेखाङ्कतपरि तोभस्म रेखांकितेन मण्डले नभूषितभूतले सुवर्णरजतताम्रलोहान्यतम निर्मितं १. शिवस्याज्ञा कर्ततामितिपाठभेदः ॥