सामग्री पर जाएँ

पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/१३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

निर्माल्यभोजन विचारः ॥ श्चित्तत्रिधानगतनिर्माल्यशब्दानां सर्वनिर्मास्यविषयत्वे तत्र बहिः क्षिप्तेति वि- शिष्य निर्माल्यसंज्ञाकरणस्य वैयर्थ्यप्रसङ्गात् । विसर्जनानन्तरमपि बहिः क्षेपपर्यन्तं निर्माल्यत्वाभाववर्णनस्यासामञ्जस्यप्रसङ्गाच्च । देवभूम्यादिस्पर्श तत्संस्पृष्टस्पर्शेषु दोषभावन स्पर्शप्रायश्चित्तगतनिर्माल्यशब्दानां विशेषविष- यत्वावश्यंभावाच्च । बहिः क्षिप्तञ्च तदुच्यते यन्महाहविर्निवेदनादिषु भ क्तपरिचारकेभ्यो दत्तावशिष्टं गोगजादिभ्यो बहिर्नीतं जलादिषु क्षिप्तं बहि- र्बल्यर्थ दत्तंवा | तत्सर्वं वचनबलाद्धूपोपस्थानानन्तरंधूप दस्पृश्य मेव । न न्येवं तर्हि तत्र निर्माल्यभक्षणादिप्रायश्चित्तोपदेशानां बाहि. क्षिप्तमातविष - त्वे 'देवस्त्र देवताद्रव्यनिवेद्यचण्डद्रव्याणां भक्षणादिषु प्रायश्चित्तविधानं नलभ्यतइति चेन्न । तत्रैव निर्माल्यभक्षणोपेक्षणदानविक्रयलंघनस्पर्शेषु, निर्माल्यतद्भक्षयितृस्पृष्टभक्षणलंघनस्पर्शेषुच प्रायश्चित्तविधानानन्तरं 'देवा- यतनवस्त्वन्यदेवप्रामादिसंभवम् । श्रीह्यादियेनकेनैवोपाधिनाऽऽदायभक्षणम् ॥ करोति यस्स संमूढोमलिनःस्तेनकृन्मत' इत्यादिना देवस्त्र देवताद्रव्यनिवे- द्यचण्डद्रव्याणां भोगदानयोःपृथगेवस्तेयप्रायश्चित्तवर्णनात् । सूक्ष्मागमे - ‘निर्माल्यस्य निवेद्यस्य लङ्घन्ने दानकर्मणि । चान्द्रायणं चरेत्तत्तुगोनागानां विनिक्षिपे'दिति निर्माल्यात्पृथक् निवेद्यग्रहणादपि प्रायश्चित्तोपदेशगल- निर्माल्यशब्दानां विशिष्य निर्माल्यसंज्ञिक बहिः क्षिप्तमात्रविषयत्वं ज्ञायते । अन्यथा तेषां षड़िधनिर्माल्यपरत्वे निवेदनस्यापि तदन्तर्भूततया प्राक् नि वेदनग्रहणं व्यर्थ स्यात् । यत्तु कामिक एव – 'स्नानपानीय दुग्धाद्यैर्य दि सिक्तो भवेत्तदा । स्नायात् प्रक्षाळयेत् द्वेधानाभे रुमधस्तथा ॥ चललिङ्गेऽप्ययं न्यायो विहितो यज्ञमन्दिरे' इति शिवस्याभिषेकसमये अ- भिषेकजल दुग्धदध्यादिकरण सेकेनायू तदधोगात्र विभागेन स्नानप्रक्षा- ळन विधानं, तत् शिवाभिषेकजलादिबिन्दूना मर्चकं प्रति अपवित्रताभि- प्रायेण न भवति । शिवाभिषेकजल/दिप्राशस्त्यस्य प्राक्प्रपञ्चतत्वात् । -