पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

निर्माल्यभोजन विचारः ॥ कांस्यनिर्मितं वा सप्तधा भस्मना शोधितमघोराभिमन्त्रितं तदभावे कदळी- पलाशपद्मचूतमधूकाद्यनिन्दितपत्रं वा पालं निवेश्य तत्र घृतेनोपस्तिर्य परिवे- षितं द्विरभिधारितं सव्यञ्जनं शुद्धमन्नमस्त्रेण संप्रोक्ष्यत्र्यक्षरमृत्युञ्जयपूर्वकेण मृत्युञ्जयाय वौषडिति मन्त्रेण सप्तवारमभिमन्त्र्य यथावर्ण परिपेचनादिकं कृत्वाग्रासार्द्धमात्रेणानेन नागकर्मककर देवदत्तधनंजयेभ्यः उपप्राणवायु- भ्यः स्वाहेति स्वस्यदक्षिणभागे गोमये पलिते मण्डले दद्यात् । ततस्सव्य- हस्तकनिष्ठिकया स्त्रत्रणेन नागादिभ्यश्चुळकोदकं दत्वा मात्रमज्जनाई शि- ष्टजलममृतमन्त्रेण प्राश्य प्राणाहुतिपञ्चकं कुर्यात् । तेन प्राणापानव्यानो- दानसमानानां क्रमेण तदावाहिताना मात्मभूतयोनयः पाताळतलवासिनः पितरो देवा इत्येतेषांच तृप्तिं भावयेत् । ततो यथाकिञ्चिदुच्छिष्टान्नमादा- य नरकवासिभ्यः स्वाहेति भूमी दत्वा उत्तरापोशनानन्तरं तच्छेषजलं कनि- टांगुळ्यानि स्त्राव्य हस्ताद्वर्तनादि शुद्धाचमनान्तं कर्म कृत्वा भुक्तदोषशु- द्धयर्थ दक्षिणकरांगुष्ठजलेन दक्षिणपादांगुष्ठाग्रस्थकालाग्निरुद्रं सेचयेत् । अनिवेदितभोजिनां तु भोजने विशेषः प्रागेव सुप्रभेदोदाहरणेन दर्शितः । निवेदितभोजिनामनिवेदितभोजिनाञ्च भोजनकालादन्यत्र यदन्यदोषधतांबू- ' लपानीयादि भोज्यं गन्धपुष्पादि भोग्यं बोपतिष्ठते, तत्सर्वे मनसावादेवा- य समप्यैव भोक्तव्यम् । 'पत्रं पुष्पं फलं तोय मन्नपानाद्य मौषधम् । अ निवेद्यनभुञ्जीत भगवन्तं समाहित इति कामिकवचनात् । 'उपभोगाय पुरतो वस्तु यद्यदुपस्थितम् । तत्तत्समर्प्य देवाय विदधीताःमसात्ततः' इति वातुळवचनाच्च । यत्तु – 'अन्नाद्यमौषधं तोयं पत्रं पुष्पं फलांदिकम् । शिवस्य दत्वा तच्छेषं भोज्यं भुञ्जीत बुद्धिमा 'नित्यै। पधादे निवेदितशेपस्य भोजनविधानं, तत् कार्यार्थमनिवेदितभोजनं कुर्वतो भोजनमध्यग्राह्यो पचा- दिविषयम् । अन्यत्र शिवदासानां शिवोच्छिष्टमेव ग्राह्यम् । किञ्च भक्तेन यत्किञ्चित्फलमुद्दिश्यया क्रिया लौकिकी वैदिकीवा कर्तुमिष्यते सा सर्वाऽपि - .