निर्माल्यभोजनविचारः ॥ १२३ देकदेशसमर्पणसंभवात् । स्मृतिनिबन्धनेषुच - 'विष्वक्सेनाय दात- व्यं नैवेद्यञ्च शतांशकम् । पादोदकं प्रसादं च लिङ्गे चण्डेश्वराय चेति. निवेदितशतांशस्य चण्डांशस्यैव चण्डभागत्वप्रतिपादनाच्च । एवं 'सदा- शिवस्य निर्माल्य'मिति सुप्रभेदवचनस्य कामिकवचनाद्यनुसारेण 'यत्स- दाशिवनिर्माल्यं चण्डेशाय समर्पितम् तन्मनुष्याणांनभोज्य मित्यर्थः ॥ अथ- वैवं तदभिप्रायः । शिवस्य निर्माल्यं शिवदास्यभावरहितानां पशुप्रायाणां केवलमनुष्याणां नभोज्यम् । अतः काम्यतया परार्थपूजाया मात्मार्थपूजा- यांवा समृद्धमहाहविर्निवेदने सति तावद्भोजनासमर्थानां देवालये परिचार- काणां पूजकगृहवासिना मन्येषांच शिवदीक्षावतां शिवभक्तानामलाभे ते- भ्योदत्तावशिष्टं यथाकथञ्चिन्मनुष्यमात्रेन दातव्यम् । किंतु गोगजेभ्यो देयम् । अगाधेऽम्भस्यग्नौवा क्षेतव्यं भूमौ वाखातव्यमित्येतत्परम् । यथाऽश्व- मेधादिऋतुषुऋत्विजां हविश्शेषभक्षणसामर्थ्या भावेऋत्विग्भ्योदत्तावशिष्टुंह वि- रनुपनीतेषु वर्णान्तरेषु नदातव्यम् । किंतूपनीतेषु ब्राह्मणादिषुदातव्यमझौ वाक्षेप्तव्यमित्येतत्परं 'हविश्शेषान्मक्षयितु मृत्विजश्चेन्न शक्नुयुः । विप्रेभ्य- स्संप्रयच्छेयुः क्षिपेयुर्वा हुताशन' इति वचनम् | यथावा 'ब्राह्मणोच्छिष्ट - भोक्तृतद्दासशूद्राभावे तदुच्छिष्ट मप्सुक्षेप्तव्यं भूमौवाखातव्यमित्येत्पर 'मश- तौभूमौ निखने दप्सुवा प्रवेशये दितिवचनम् । एतदभिप्रायेणेवोक्तं हर- दत्ताचार्यैः– 'यद्ब्राह्मणस्त्वमसिनाकसदां निकाये तुभ्यं निवेदितमभोज्यमि- ति स्मरन्ति । उच्छिष्टमीश्वर विशिष्टमपि द्विजानां भूमौ निखेय मधवा ऽम्भसिमज्जनीय‘मिति । अस्य श्लोकस्य उच्छिष्टभोक्तदाससद्भावेऽपि तदु- च्छिष्टं भूमौ निखेय मंभसिवा मज्जनीयमिति न तात्पर्यम् । 'उच्छिष्टमन्नं दातव्यंशीर्णानि वसनानिचे ति दासेन प्रपन्नाय शुश्रू षुशूद्रायोच्छिष्टदान- - स्मरणात् ॥ 'जीर्णान्युपानच्छतवासः कूर्चान्युच्छिष्टाशनं शिल्पवृत्तिश्चेति शुश्रू षुशूद्रधर्मस्मरणाच्च । एवमेव 'तुभ्यं निवेदितं भोज्य' मित्यत्रापि -
पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/१३०
दिखावट