पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शिवाचनाचन्द्रिकायाम् 1 मुक्तञ्चेत्यतिविशुद्धं जात मतस्तेषामस्पृश्यमासीत् । एतदभिप्रायेणोक्तं वातु- ळोत्तरे — सुप्रतिष्ठितलिङ्गेषु न यथापूर्वभावना । तथा शिवप्रसादस्य पू- र्वनामनसंस्मरेत्' इति ॥ एवंभूतं शिवनिर्मास्यं दीक्षया विधूतकल्मषाणां छिन्नपांशानांशिवभक्तानामेव शिवलिङ्गमिव स्पृश्यं तदाज्ञया भोज्यं । ते हि शिवभक्तारिशवदीक्षया प्रतिदिवसपरिचीयमानभूतशुद्धिदंडमुण्डकला- न्यासेन च शिवलिङ्गवच्छिवनिर्माल्यवच्चाप्राकृतरूपा संपन्नाः । 'हस्त- पादादिसाधर्म्याद्रुद्रान्ममवपुर्वरान् । प्राकृता नेव मन्वानो नावजानाति बुद्धिमान्' इति वायुसंहितावचनात् । यत्तुसकलपापहरत्वादिगुणवत्वे सर्व- प्रायश्चित्तवकिमिति सर्वसाधारणं नजातमिति शङ्कितं तदप्येतेन निर- स्तम् । अतिशुद्धशिवनिर्माल्यस्पर्श एवान्येषा मनधिकारस्योक्तत्वात । नहि ब्रह्महत्यादिमहापातकहरमिति अघमर्षणादि वैदिकसूक्तं वेदश्रवणे ऽप्यनधिकारिणामत्रैवर्णिकानां साधारणं भवति । नच तावतावैदिकसूक्त - स्य कश्चिदपकर्षः । किंचोत्कर्ष एव । तदभिप्रायेणैव पुराणोष्वीश्वरवचनं 'अशुद्धात्माऽशुचिर्लोभान्मभुक्तं पावनं परम् । भक्षयन्नाशमाप्नोति शूद्रोह्यध्ययनादिव' इति ॥ यत्तु शिवनामवंदतिविशुद्धमपि शिवनिर्माल्पं स र्वसाधारणं किमिति नजातमिति शङ्कितं तत्र ब्रूमः । अतिविशुद्धमप्राकृत- मपि शिवनाम शिवाज्ञया सर्वसाधारणं जातम् । तदूवटितं वैदिकं पञ्चा- क्षरं जीवरत्नमपि । तथाहि वायुसंहितायाम् – 'कलो कलुषिते काले दु- र्जयेदुरतिक्रमे । अपुण्यतमसाच्छन्ने लोके धर्मपराङ्मुखे ॥ क्षीणेवर्णसमाचा- रे संकरे समुपस्थिते । सर्वाधिकारे संदिग्धे निश्चिते वा विपर्यये ॥ गुरू- पदेशेविहितगुरुशिष्यव्यतिक्रमे । केनोपायेन मुच्यन्ते भक्तास्तव महेश्वरे'. त्यंविकायाः प्रश्ने । शिववचनम् - 'आश्रित्यपरमां विद्यां हृद्यां पञ्चाक्षरी मम । भक्त्याच भावितात्मनो मुच्यन्ते कलिजानराः ॥ मनोवाक्कायजेदशेषे ईक्तुं स्मर्तुमगोचरैः । दूषितानां कृतघ्नानां निर्दयानां खलात्मनाम् ॥ - -