सामग्री पर जाएँ

पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

निर्माल्यभोजनविचारः ॥ - तॄणामित्थं स्थिते वचनमन्त्र परायणं नः' इति ॥ तस्माद्विविच्येदं कंथनीयमि- ति । किमुत्कर्षतः शिवनिर्माल्यं केषांचित्परिहरणीयं अपकर्षतोवेति । उच्च- ते । शिवनिर्माल्यं सकलपापहरत्वादिसर्वोत्कृष्टगुणशालीत्यत्र तावन्नविवादा- वकाशः । येषु पुराणागमेषु केषांचित्तन्निषेधः कृतः तेष्वेव तथाविधगु- णशालीत्यपि प्रतिपादितत्वात् । श्रूयन्तेहिपुराणागमेषु वचनानि – 'पा- दोदकं च निर्माल्यं भक्त्या धार्य प्रयत्नतः । न तं स्पृशन्ति पापानि म नोवाक्कायजान्यपि ॥ भक्षये द्यो नरो भक्त्या पत्रित्रमिति शंसितः । शुद्धा- त्मा ब्राह्मणस्तस्य पापं क्षिप्रं विनश्यति ॥ मत्प्रसादोदकं पुष्पं सदा धार्य मिहाश्रितैः । रोगिभिश्च विशेषेण विपदिग्धैश्च यत्नतः ॥ स्त्रेष्टलिङ्गे च यद्दत्तश्चरुवत्तन्नसंशयः । राजसूयसहस्त्रस्य फलं प्राप्नोति नारद || पृथूदकं महातीर्थे गङ्गा च यमुनानदी | नर्मदा सरयूर्विप्रास्तथा गोदावरी - नदी || सदासन्निहितास्त्वेता इशंभोः स्नानोदके मुने । शंभोस्स्नानोदकं से- व्यं सर्वतीर्थमयं हि तत् || अयुतं योगवां दद्याच्छ्रोत्रियायाहिताग्नये । मम पादजले स्नात्वा तत्फलं समवाप्नुयात्' इत्यादीनिच ॥ वैद्यशास्त्रेच - ' निर्माल्यसलिलं प्राश्य देवदेवस्य शूलिनः । क्षयकुष्ठज्वरश्वा सैर्मुच्यते कि- विषेरपि' इति ॥ रामायणेऽपि - 'तत्र देवर्षिगन्धर्वा वसुधातलवासिनः । भवांगपतितं तोयं पवित्रमिति पस्पृशु रिति ॥ भागवतेऽपि - 'किं वा शि- वाख्य मशिवं न विदुत्त्वदन्ये ब्रह्मादयस्तदवकीर्यजटाः श्मशाने । तन्माल्यभ- स्मनृकपालवसत्पिशाचैर्ये मूर्द्धभिर्दधति तच्चरणावसृष्ट' मिति ॥ एवं परम- पावनस्यापि शिवनिर्माल्यस्य स्पर्शे केषां चिन्निषेधरिशवलिङ्गस्पर्शे निषेध इत्र तेषामनधिकारप्रयुक्त एव । यथाहिं पूर्व लौकिकाशलाविशेषरूपमपि शिवलिङ्गं प्रतिष्ठासंस्कारेण निरस्तमायाविकारभूताशुद्धरूपं चिन्मयं जात- मिति तदनन्तरमदीक्षितानामस्पृश्यमासीत्, एवं निर्माल्यमपि निरीक्षणा- दिसंस्कारबृन्देन तथाभूतं जातं तदनन्तरं शिवेन स्त्रोपभोगयोग्यमित्युप-