शिवार्चना चन्द्रिकायाम् 11 -- पमनुष्यमात्र विषयाणि । यानि तु दीक्षितान् शिवदास्यभावनावत ए- बाधिकृत्य तन्निषेधवचनानि तानि निवेदितातिरिक्तपञ्चविधनिर्माल्य विष- याणीति व्यवस्थाद्वयं प्राचीनैरेव दर्शितम् । अत्र द्वितीयव्यवस्था ‘नि र्माल्ये षड्डिधे भोज्य मेक्रमेत्र निवेदित 'मित्याद्यागमप्रसिद्धा । प्रथमव्यवस्था. शिवपुराणे स्पष्टं प्रपञ्चता । तत्रहि - अनर्ह सम नैवेद्यं पादांबु दळम् । इतीश्वरेण कथितमिति केचिन्सहर्षयः ॥ वदन्ति तत्कथं स्वामिन् यथार्थं कथयस्वमे' इति जैमिनिप्रश्ने—'देवदेवस्य वचसोविषय- स्वत्र नैमिने । ये वीरभद्रशपितारिशवभक्तिपरामखाः ॥ शंभोरन्येषु दे- वेषु ये अक्का ये न दीक्षिताः । ये शुद्धकर्मिणशशम्भो रन्यत्र समबुद्धयः ।। तेषामनर्हमीशस्य तत्प्रसादचतुष्टय 'मिति व्यासवचनं दृश्यते । अन्यानि चादीक्षिताना मभक्तानां शिवनिर्माल्यमयोग्य मित्यर्थे कामिकादिप्रसिद्धानि वचनानि प्रागुदाहृतानि । ननु शिवनिर्माल्यं सकलपातकहरं सकलव्याधि - निवर्तक मखिलयज्ञफलप्रद मशेषतीर्थस्नानतुल्यं भुक्तिमुक्त्येकसाधनमि- ति शिवशास्त्रज्ञेरुद्धष्यते । भक्तिदीक्षारहितैर्नभक्ष्यं नस्प्रष्टव्य मित्यप्युच्यते । कथमेतदुपपद्यते । तथा सकलपापनिवर्तनशक्त्यादियुक्तं सर्वप्रायश्चित्ता: दिवच्छिवनामकीर्तनवद्वा सर्वसाधारणीभवितुमेवाह योग्यम् । कथं के- षांचित् परिहरणीयं स्यात् । अतरिशवनिर्माल्यं निकृष्टमित्येव केषांचित् परिहरणीय मासीदिति कुतो नभवति । हरदत्ताचार्यैरपि सममुक्तरीत्यो- त्कर्षापकर्षसाधारण्येनेवोक्तम् – 'उत्कर्षतः परिहरत्यपकर्षतो वा का वास- ना भवति कस्य कृते न विद्मः । यदीक्षितस्य पतितस्य च तुल्यरूपं प्रत्या दिशन्ति मुनयः कमनीयमन्त्रम् || चण्डाल चण्डिलचितानल शौण्डिका- नां गोब्राह्मण ज्वलनदीक्षितयोषितां वा । स्पर्शः कथंभवति भावनया निषि द्धः स्पृष्टेषु वा शिवकथा विहिता विशुद्धिः ॥ वर्ज्यान्नमाहु रपि दीक्षित म ● ग्रिकल्पं भोज्यानमेव कृतराजपरिक्रयं तम् । शङ्खास्थि पावन मपावनमस्थि:
पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/१२५
दिखावट