पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

निर्माल्यभोजन विचारः || क्तदीक्षावतां तनिषेधतद्भक्षणप्रायश्चित्तविधानदर्शनादिति द्वितीयः पक्षः । निवेदितव्यतिरिक्तपञ्चविधनिर्माल्यविषय एव निषेधप्रायश्चित्तोपदेशः । नि: वेदितं तु तेषामपि ग्राह्ममिति तृतीयः पक्षः । निवेदितमयेऽपि शिवाल- ङ्गनिवेदितनिषेधात् सकळनिवेदितमेव ग्राह्यमिति चतुर्थः पक्षः । शिवलि ङ्गनिवेदितं न सर्वनिषिद्धं, किन्तु मनुष्यादिप्रतिष्ठापित स्थिरलिङ्गनिवेदि- तमेव । चरलिङ्गादिनिवेदितन्तुग्राह्यम् । तत्र चण्डाधिकाराभावादिति प अमः पक्षः । कामिकादिगत निवेदितनिषेधतदनुमतिवचनानां स्थिर- चरादिविषयतया न व्यवस्था, कामिकाद्रिसिद्धान्तमार्गे चरादिपूजायामपि चण्डसद्भावात् । किन्तु अन्नादिविषयो निषेध | फलापूपतांबूलादिविषयाऽनुम- तिरिति व्यवस्था । तदितरेषुविशेषवचन सद्भावादितिषष्ठःपक्षः । चरलिङ्गादि- निवेदितमन्नादिकमपिग्राह्यमेव । किन्तु भ्रात्रादिभ्योदेयं, नतु पूजकेनभो- क्तव्यमिति सप्तमः प्रक्षः। शिवार्पणबुद्ध्याशिवनिवेदितं पूजकेनापि भोज्यमि- त्यष्टुमः पक्षः। फलनिषेधवचनयोर्निषेधवचनस्य बलीयस्त्वात् सर्वस्यापिशिव- निर्माल्यस्यवर्जनमेव युक्तमिति नवमःपक्षः 11 एवेषु नवमः पक्षस्ता वदत्यन्त- मयुक्तः । शिवनिर्माल्य स्वीकारे महाफलप्रतिपादकानां बहूनां दिव्यागम- पुराणादिवचसा मप्रामाण्यप्रसङ्गात् । नार्षेषु वचनेषु वर्णमालमप्यप्रामाण्यं सहते । नितरां शिववाक्येषु । येष्वर्थवादकतया प्रामाण्योपपादनमपि महते प्रत्यवायायेति सर्वदिव्यागमघण्टाघोषः । 'श्रूयतेच महान्दोष' इत्यादि वचनं तु यत्र विधिनिषेधयोरुभयोरप्यन्यत्रप्रामाण्यावकाशः तत्र तयोः द्व- योः क्वचिन्मेळने निपेवोबली यानित्येतत्परम् । यथाद्वादश्यामामलकप्राश- स्त्यवचनप्रामाण्य मर्कचारमेळ नरहितद्वादश्यां सावकाशं अर्कवारे तन्नि- षेधवचनप्रामाण्यं द्वादशी मेळ नरहितेऽर्कवारे सावकाशम् । द्वादश्यर्कवार- मेळने सत्यामामलकफलनिषेत्रवचनद्वय प्राप्तौ निषेधवचनं बलीय इति । फलवचनानां सर्वथैवाप्रामाण्योपपादकं निषेचचचनानां चलीयस्त्वंतु प्रा-