पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शिवार्चना चन्द्रिकायाम् मिति नोच्यत' इति बच्चनादितिकेचित् । कामिके- 'स्त्रेष्टलिङ्गे च यद्दत्तं चरुवत्तन्न संशयः । नैवेद्यं भ्रातृपुत्राणां भगिनीनां च दापये दिति चरु- दृष्टान्तवचनात् । कारणे-'स्फाटिकं बाणलिङ्गन्ध स्थापितं चरमेव वा । तन्निवेदितनिर्माल्यं न निर्माल्य प्रकल्पयेत् ॥ बालानां युवतीनांच भोजनं बलवर्द्धन’मित्यनिर्माल्यत्त्रप्रतिपादनाच्च चरलिङ्गादिनिवेदितान्नमपि भोः ज्यमेव । किन्तु पूजकस्य न भोज्यम् । 'नैवेद्यं भ्रातृपुत्राणा'मित्या- दिविशेषवचनात् । तांबूलादिमात्रस्य ग्राह्यत्ववचनंतु मनुष्यादिस्थापित- लिङ्गविषयमित्यपिकेचित् । 'नैवेद्यं कल्पयित्वातु शिवायेतितदूद्धृतः । निवेद्यं मह्यमुच्छिष्टं भुङ्गे प्रत्यहमादरात् || सोऽयं मत्सदृशः प्रोक्तः चरुद्रव्यस्तथाभवे'दिति कामिके निवेदनकर्तुरपि तदु/च्छिष्टभोजनप्रतिपा- दनात्पूजेकस्यापि शिवनिवेदितं भोज्यमेव । तस्य निवेदितभोजन निषेध- चचनोनित संहाररुद्रादिनिवेदितविषयत्वेनयोज्यानीत्यपि केचनवदंति । स- दाशिवमूर्ती परमशिवाबाहनपुरस्सरं तत्पूजानिरूपणावसानएव तन्निवेदित- निषेधस्यदिव्यागमेषुबहुशश्श्रवणात् विधिनिषेधसहस्त्रशबळितं सर्वविधमपि शिवनिर्माल्यंवर्जनीयमित्येत्रयुक्तम् । 'श्रूयतेचमहान्दोषःश्रूयतेच महाफलम् फलं तत्रपरित्याज्यंदोषोहिबलवत्तर' इति वचनात् । नचकामिके– 'पपुष्पं फलं तोयमन्नं पाद्यमधौषधम् | अनिवेद्य नभुञ्जीत भगवन्तं सदाशिव 'मि- त्यनिवेदितभोजनेऽपि निषेधः श्रूयते इति वाच्यम् । तस्यातिथिसत्काररहित- भोजननिषेधव त्तच्छेषभोजनविधिपरत्वसंभवात्, 'अन्नाद्य मोषधं तोयं पतं पुष्पं फलादिकम् | शिवाय दत्वातच्छेषं भोज्यं भुञ्जीत बुद्धिमा' नितिं सि- द्धान्तशेखरे तथैवप्रतिपादनाच्चेत्येवमितरेवर्णयन्ति । एवं निर्माल्यविधि- निषेधवचनानां विचारे नव पक्षास्संपन्नाः । शिवसंस्काररूपदीक्षावतामेव शिवनिर्माल्यानुमतिरन्येषान्तन्निषेध इत्याद्यः पक्षः । शिवसंस्कारवत्स्वपि वे- दिकदीक्षावतामेवात्याश्रमिप्रभृतीनांतदनुमतिः, नतुकामिकादिसिद्धान्ततन्त्रो-

-