सामग्री पर जाएँ

पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

निर्माल्यभोजन विचारः ॥ तदुक्तशिवदीक्षारहितविषयाणीत्यपरे || सुप्रभेदे - 'सदाशिवस्य नि- माल्यं मनुष्याणां नभोजनम् । पशूनांच गजानांच जलेवाऽथ विनिक्षिपेत् || अथवा वह्निना दह्याद्भूमौवा खातये वः इति सदाशिवनिर्माल्यस्य मनुष्य- मात्रसाधारण्येनाभोज्यत्वं प्रतिपाद्य तस्यभूत्रन्हिगोगजादिष्वेव प्रतिपत्तिवर्ण- नाच सदाशिवनिर्माल्यं दीक्षितानामप्यभोज्यमेव । तेषां शिवनिर्माल्यं प्र शस्तमिति वचनानि तु सकळ निर्माल्पविषयाणि ।' प्रतिमासु च सर्वासु न चण्डोऽधिकृतोभवे'दिति सकळेषु चण्डाधिकारनिषेधात् । कारणे स- कळानांच नैवेद्यं सर्वेषां भोजनं भवेदिति सकळनैवेद्यानुमतिवर्णनात् । तदपि शिवदीक्षितैस्तत्परिचारकं रेव भोक्तव्यम् | सुप्रभेदे - सदाशिवस्य निर्माल्य’मित्याद्युक्त्यनन्तरं‘सकळानां तु निर्माल्यं परिचारक भोजनम् । तद- प्यन्यजनानां तु भोजने दोषकद्भवेत्' इत्युक्तत्वादित्यपरे । सदाशिवनिर्माल्ये- ध्वपि मनुष्यादिस्थापितशिवलिङ्गापितेष्वेव निषेधः । नतु चरलिङ्गादिषु । तेषु चण्डाधिकाराभावात्। 'बाणलिङ्गे चरे लोहे रत्नलिङ्गे स्वयंभुवि । प्रति- मासुच सर्वासु नचण्डोऽधिकृतो भवेत् || लिस्वायंभुवेबाणे रत्नजेरसनि- भि॑िते । सिद्धप्रतिष्ठितेलिङ्गे न चण्डोधिकृतोभषेत्' इति च वचनादित्येके । चललिङ्गादिषु चण्डाधिकारो नास्तीति वचनानि वैदिकपौराणिक बामद- क्षिणतन्त्रादिविषयाणि । नतु कामिकादिसिद्धान्तविषयाणि । 'स्थिरेचरे तथा रत्ने मृद्दारौशैलकल्पिते । लोहचित्रमये बाणे स्थितश्चण्डोनियामकः ॥ सिद्धान्ते नेतरे तन्त्रे नवामे नच दक्षिणे' इति ॥ 'अव्यक्तव्यक्तलिङ्गेषु म ण्डले स्थण्डिलेऽनले । चरे स्थिरे तथा रत्ने मणिचित्रादिके तथा ॥ गन्धान्नसंभवें लि मृद्धस्मफलकल्पिते । तथा पुष्पमये लिङ्गे चण्डपूजा नियामिके'ति च कालोत्तरादिषु विशेषदर्शनात् । अतो निर्माल्यविधि- निषेधयोश्चरस्थिरादिविषयत्वेननव्यवस्था । किन्तु निर्माल्यविशेषविषयत्वेन | 'तांबूलं भस्म तेलं च गन्धपुष्प मधूपकम् | फलादि क्षणद्रव्यं निर्माल्य- 157