११२ शिवार्चना चन्द्रिकायाम् - दनिन्दिंतम् । तस्मादभोज्यं निर्माल्य मशुद्धै रशिवात्मकैः ॥ जिह्वाचाप- व्यसंयुक्त शिशवसंस्कारवर्जितः । शिवनिर्माल्यभोजी चेत् रौरवं नरकं व्रजे? दिति शिवपुराणवचनादिति केचित् । कामिकादिसिद्धान्ततन्त्रेषु दीक्षि तानामेव समयाचारविधानेन ' निर्माल्यं नचभुञ्जीते'ति शिवभक्तानं न निन्दये 'दित्यादीनि निषेधवचनानि 'निर्माल्यभक्षणेऽघोरं प्रमादादयुतं- जपे'दिति प्रायश्चित्तविधानानि च श्रूयन्ते । अतः 'स्वाद्यानिचादनीयानि पेयान्यन्यानि यानि च । देयानि तानि वै शंभो रश्नीयाद्दासभावतः' इत्या दिपुराणवचनानि वैदिक पौराणिकपाशुपतादिविहित शिवसंस्कारण ये दी क्षितास्तेषामेव शिवनिर्माल्यं ग्राह्यम् । नतु कामिकादिसिद्धान्ततन्त्रेण दीक्षितान मिति केचित् | कामिक एव – 'अशुद्धात्माऽशुचिर्लोभान्मद्भुक्तं पावनं परम् । भक्षयन्नाशमाप्नोति रसभोक्ता यथाद्विजः ॥ मल्लिङ्गधारि- गोलोके देशिका मत्परायणाः । मदेकशरणास्तेषु योग्यं नैवान्यजन्तुषु' इति वचनात्, ' उपवाससहस्त्राणि प्राजापत्यशलानिच । शिवप्रसादसिद्धस्य कोटयंशेनापि नोसमाः' इत्यादिवातुळागमप्रभृतिवचनदर्शनाच्च । सि- द्धान्ततन्त्रे दीक्षितानामपि शिवनिवेदितं प्रशस्तमेव | शिवनिर्माल्यनिषेध - प्रायश्चित्तवचनानि तु ' देवस्वं देवताद्रव्यं नैवेद्यंच निवेदितम् । चण्ड- भुक्तबहिःक्षिप्त'मिति पञ्चविधनिर्माल्य विषयाणि । कामिके 'देवस्त्रं देवताद्रव्यं नैवेद्यंच निवेदितम् । चण्डद्रव्यञ्च निर्माल्यं निर्माल्यं षड़िधं भवेत् ॥ ग्रामोदीशस्य देवस्वं देवद्रव्यं पटादिकम् । नैवेद्यं कल्पितं तस्मै देवोच्छि- ष्टं निवेदितम् ॥ चण्डद्रव्यंतु तद्दत्तं निर्माल्यं प्रेरितं बहि' रिति निर्माल्य - यि निर्माल्योपभोगदोषसंकीर्तन तत्प्रायश्चित्तोपदेशानन्तरमेव निवेदि- ताख्यानमाल्यस्वीकारानुमत्यर्थ 'मशुद्धात्माऽशुचिर्लोभा'दित्यादिसार्धश्लो- कद्वयस्य पठितत्वात् । एवञ्च सिद्धान्ततत्रेषु शिवनिवेदितनिषेधवचनानि 6
पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/११९
दिखावट