पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शिवशानपूजाविधिः ॥ षां बहुवचनमिति भेदः । ततः प्राग्भागे चतुरश्रमण्डले इन्द्रादिविष्ण्व- न्तानां लोकपालानां बलिं दद्यात् । ततोमण्डपाद्वाह्यांकणे गोमयमण्ड- ले वायसादिभ्यस्समयभेदिभ्यः स्वाहा । अग्न्यादिभ्यः स्वाहा । सर्वेभ्योग्रह- वास्तुदेवेभ्यः स्वाहा । इतिपृथक्पृथक् बलिं दत्वा श्वभूतपतितप्रेतादिभ्यो ऽप्येकं बलिंदद्यात् । यद्वा - संक्षिप्य सर्वोद्देशन 'येरुद्रारुद्रकर्माणो रौद्र- स्थाननिवासिनः । ( सौम्याश्चैवतु केचित् सौम्यस्थान निवासिनः ।) मातरो रुद्ररूपाश्च गणाना अधिपाश्च ये ॥ ॥ विघ्नभूतास्तथा न्येच दिग्विदिक्षु समाश्रिताः । सर्वे सुप्रीतमनसः प्रतिगृह्णविमंचलिम् || सिद्धिं जुषन्तु नः क्षिप्रं भयेभ्यः पांतुमांसदेति मन्त्रेणेकंबलिंक्षिपेत् || सर्वमिदं बलिकार्यमग्निकार्याधिकारिणेत्र कर्तव्यं नसः । अग्निकार्याधिकारे सत्यपि होमोपकरणवैकल्ये तदशक्तौवा होममन्त्रान् होमसङ्ख्यापेक्षया दशगुणावृत्त्या जपेत् । ततश्शिवज्ञानपूजां कुर्यात् ॥ शिवशानपूजाविधिः ॥ शिवज्ञानानि कामिकादयो दिव्यागमाः । तत्र कामिक विभेद परार्द्धग्रन्थम् | योगजं पञ्चभेदं लक्षग्रन्थम् | सूक्ष्म मेकतन्त्रं पद्मग्रन्थम् । सहस्त्रं दशभेदं शङ्खग्रन्थम् । अंशु द्वादशभेदं पञ्चलक्षग्रन्थम् । सुप्रभेद मेकतन्त्रं त्रिकोटिग्रन्थम् । विमष्टभेदं त्रिकोटिग्रन्थम् । निश्वा- समष्टभेदं कोटिग्रन्थम् | स्वायम्भुवं त्रिभेदं सार्धकोटिग्रन्थम् । अनल मेकतन्त्रं त्रिंशत्सहस्त्रग्रन्थम् वीरतन्त्रं त्रयोदशभेदं लक्षग्रन्थम् । रौरवं षट् भेद मष्टार्बुदग्रन्थम् । मकुटं द्विभेदं लक्षग्रन्थम् । विमलं पोडश- भेदं लक्षग्रन्थम् । प्रोद्गीतं षोडशभेदं त्रिलक्षप्रन्थम् । लळितं त्रिभेद मष्टसहस्त्रग्रन्थम् । सिद्धं चतुर्भेदं सार्धकोटिग्रन्थम् । सन्तानं सप्तभदं पट्सहस्रप्रन्थम् । शर्वोक्तं पञ्चभेदं द्विलक्षग्रन्थम् । पारमेश्वरं सप्तभेद