पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शिवार्चनाचन्द्रिकायाम् द्वादशलक्षप्रन्थम् । किरणं नवभेदं पञ्चकोटिग्रन्थम् | वातुळं द्वादशे भेदं लक्षग्रन्थम् । एवमष्टाविंशतिभेदा दिव्यागमाः । परार्धशङ्खपषट्प ञ्चाशत्सहस्राधिकैः षडुत्तरषष्ट्यालक्षन्यूनं पद्मंचेत्येतावत्संख्या ग्रन्थाः । तभेद: अष्टोत्तरशतसङ्ख्याः । इत्थंभूतान् सर्वानपि दिव्या- गमान् यथालाभं कतिचिद्वा एकंवा तत्रापि स्त्रपूजोपयोगिसंहितामात्रं वा लक्षणशालिषु पुस्तकेषु लेखयेत् । पुस्तकेषु द्वाविंशत्यंगुळदीर्घ चतु रंगुळविस्तारं पुस्तकं लक्ष्मीभद्रम् | एकविंशत्यंगुळदीर्घं त्र्यंगुळविस्तारं श्रीरक्षम् । विंशत्यंगुळदीर्घ यवहीनत्र्यंगुळविस्तारं चन्द्रकान्तम् । इदमुत्तमन्त्रयम् । अष्टादशांगुळदीर्घ अर्घाधिकांगुळयविस्तारं नळिनम् । सप्तदशांगुळदीर्घ त्रियवाधिकांगुलत्रयविस्तारं श्रीनिवासम् । षोडशांगुळ- दीर्घ द्वियवाधिकांगुळद्वयविस्तारं श्रीभद्रम् । इदं मध्यमवयम् | पञ्चदशांगु- ळदीर्घं यवाधिकांगुलद्वयविस्तारं लक्ष्मीनिवासम् । चतुर्दशांगुलदीर्घ मंगुळद्वय विस्तारं उमाभद्रम् । त्रयोदशांगुळदीर्घं यवहीनांगुलद्वयवि- स्तारं वीरभद्रम् । एवंविधेषु पुस्तकेषु यजमानस्ययान्यनुकूलानि प- त्रीयचतुष्टयांशतृतीयांशयोर्मत्रेमद्रयगतसुषिरवन्ति कारयित्वा यत्रोदरमानैः कार्पाससूत्रे राबनीयात् । एतेषां शिवज्ञानपुस्तकानां पूजनाय शिवस्य दक्षिणपश्चिमे वायव्यभागेचा त्रयस्त्रिंशद्धस्तप्रभृतिषु त्रिहस्तपर्यन्तेषु परि- माणेष्वन्यतमपरिमाणवद्विद्याकोशगृहं कृत्वा सुगन्धिचन्दनाद्यनुलिप्तभित्ति- कस्य तस्य मध्ये नागदन्तादिरचितं सुवर्णरेखादिचित्रितं विद्यासिह्मासनं निधाय तत्र दुकूलादिकमास्तीर्य तन्मध्ये स्वर्णरूप्यताम्रकांस्यारकूटलोह- दारु वेणुविदळिकादिकृतां विद्यारत्नकरण्डरूपां मञ्जूषां निधाय तस्यां पुस्तकानि निदयात् । तेषु 'सर्वेभ्यरिशत्रज्ञानेभ्योनमः' इति गन्धपुष्पधूप- दीपनैवेद्येस्संपूज्य || 'सर्वज्ञानप्रदं शम्भुं सर्वज्ञानविघातकम् | कायेन मनसा वाचा विद्यापीठाश्रयं भजे' इति स्तुत्वा नमस्कुर्यात् । पुस्तकालाभे