पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीशिवस्तोत्रावली योगदशाः – भूमिकाज्ञानानि । विषयेभ्यो व्यावृत्तयः इन्द्रियाणां प्रत्याहाराः, तत्र वर्तमानः । त्वञ्चिन्ता - त्वत्स्मृतिरेव मदिरामदः, तेन तरलीकृतं -- त्याजितं मितभूमिकाप्ररूढि क्षीत्रस्येव घूर्णमानं निजचम- त्कारव्यतिरेकेण कुत्रचिपि भूमिकाज्ञानादावरोहत् हृदयं यस्य तादृगेव स्याम् | अपिशब्देन प्रसङ्गापतितत्वेन अनादरणीयतामाह ॥ २१ ॥ ८४ वाचि मनोमतिषु तथा शरीरचेष्टासु करणरचितासु । सर्वत्र सर्वदा मे पुरःसरो भवतु भक्तिरसः ॥ २२ ॥ ( भगवन् = हे भगवान् ! ) वाचि = वाणी, मन:- = मन मतिषु = और बुद्धि करण- = • इन्द्रियों द्वारा रचितासु = की गई शरीर- = शारीरिक चेष्टासु = चेष्टाओं - तथा = तथा सर्वत्र = सभी अवस्थाओं में ( भवत्- = आपकी ) भक्ति रसः = भक्ति का रस सर्वदा मे = मेरा - = सदा पुरःसरः = साथी = बना रहे ( अर्थात् मुझे उप- लब्ध होता रहे ॥ २२ ॥ भवतु = मनोमतयः– कल्पनाप्रधाना धियः । करणरचितासु बुद्धिकर्मेन्द्रिय- कार्यासु | दर्शनश्रवणादिपूर्वकत्वात्सर्वप्रवृत्तीनाम् । सर्वत्र — सर्वावस्थासु | पुरःसर: आदावेव स्फुरैन् । भक्तिरसः - समावेशचमत्कारः ॥ २२ ॥ शिव- शिव-शिवेति नामनि तव निरवधि नाथ जप्यमानेऽस्मिन् । १ . ख० पु०, च० पु० इन्द्रियेभ्यः इति पाठः । २. ख० पु०, च० पु० त्वत्प्राप्तिरेव - इति पाठः । ३. ख० पु० ज्ञानादवरोहत्— इति पाठः । ४. ग० पु० स्फुरत् - इति पाठः ।