पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रणयप्रसादाख्यं तृतीयं स्तोत्रम् - स्यानुगततया स्मरणं - समावेशमयं येषामस्ति, ते सुखासिन:- सत्स्वपि देहादिनान्तरीयकेषु दुःखस्पर्शेषु परमानन्दघने सुखे एव तिष्ठन्ति ॥ ३ ॥ सितातपत्रं यस्येन्दुः स्वप्रभापरिपूरितः । चामरं स्वर्धुनीस्रोतः स एकः परमेश्वरः ॥ ४ ॥ स्वर्धुनी - स्त्रोतः = ( मध्य-शक्ति रूपिणी ) गंगा जी का प्रवाह - ( यस्य = जिस का ) चामरं = चामर है, स एकः = वही एक ( तीय ) परमेश्वरः स्वप्रभा- = अपने चित्प्रकाश से परिपूरितः = परिपूर्ण बनाया गया = इन्दुः = ( प्रमेय रूपी ) चन्द्रमा = यस्य = जिस ( प्रभु ) का - सित- शुभ्र आतपत्रं = छाता है ( च =) = = महान् ईश्वर है ॥ ४ ॥ - इन्दुः – सर्वमेयरूपः, प्रकाशदशायां स्वप्रभाभिः– चैतन्यमरी- चिभिः परिपूर्णतां प्रापितः, यस्य सितं - शुद्धं, स्वात्मलग्नत्वाच्च बद्धं, पाशेबहेयोपादेयतादिकल्पनोत्थात् आतपात् त्रायते - इत्यातपत्रम् | तथा स्वः – स्वर्गं तदुपलक्षितं च निरयं-धर्माधर्मफलं धुनोति - स्वर्धुनी मध्यवाहिनी चिच्छक्तिः, सैव प्रसद्रूपत्वात्स्रोतः तद्यस्य चामरं - माहात्म्यप्रथाहेतुः । स एको नतु अन्यः परम ईश्वरः । स्थूल- दृष्टया तु निजरश्मिपूर्णः खण्डेन्दुः गंगा च यस्य असाधारणं छत्रं चामरं चेति स्पष्टम् ॥ ४ ॥ - प्रकाशां शीतलामेकां शुद्धां शशिकलामिव । दृशं वितर मे नाथ कामप्यमृतवाहिनीम् ॥ ५ ॥ १. ख० पु० पाशवहेयोपादेयत्वादिकल्पनोत्थात् — इति पाठः । २. ख० पु० धुनोति — दूरीकरोतीति स्वर्धुनी - इति पाठः । ग० पु० ध्वनति - इति च पाठः । - ३. ख० पु० स्वात्मप्रथा हेतुः - इति पाठः । ३९ -