पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/३६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चर्वणाभिधानं विंशं स्तोत्रम् क्लेशान्विनाशय विकासय हृत्सरोज- मोजो विजृम्भय निजं ननु नर्तयाङ्गम् । चेतश्चकोरचितिचन्द्रमरीचिचक्र- माचम्य सम्यगमृतीकुरु विश्वमेतत् ॥ १ ॥ श्रुतिपथमिता सूक्तिश्रेणी धुनोति भवातपं निरुपमपरानन्दव्याप्तिं तनोति च तत्क्षणात् । इयमिति विभोः शम्भोर्भक्त्या परं परमेष्ठिनो विहितललितव्याख्यास्माभिः कृतार्थजनार्थितैः ॥ २ ॥ विश्वत्रयेऽपि विशदैरसमस्वरूपैः शास्त्रैस्तथा विवरणैः प्रथितैव कीर्तिः । तस्माद्दुरोरभिनवात्परमेशमूर्तेः क्षेमो निशम्य विवृति व्यतनोदमुत्र || ३ || इति श्रीमदीश्वरप्रत्यभिज्ञाकाराचार्यचक्रवर्तिवन्द्याभिधानोत्पलदेवाचार्य - विरचिते चर्वणाभिधाने विंशे स्तोत्रे महामाहेश्वर- श्रीक्षेमराजविरचिता विवृतिः ॥ २० ॥ ३५५