पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/३७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५६ श्रीशिवस्तोत्रावली वेदाग्निखशराब्दे हि रोहिण्यां कुजवासरे | पौषमासे सिते पक्षे तथा चैकादशीतिथौ ॥ १ ॥ शारिकाप्रभयोर्भक्तचा तुष्यता ज्ञप्तये तयोः । राजानलक्ष्मणेनेयं भाषाटीका मया कृता ॥ २ ॥ मन्येऽनया भवेन्नूनं जनानां भविनामपि । भुक्तिमुक्तिप्रदा भक्तिः शिवे स्वात्ममहेश्वरे || ३ ॥ सांख्ययोगादिशास्त्रज्ञः पाणिनीये पतञ्जलिः | शिवार्करश्मिसंपातव्याकोशहृदयाम्बुजः महामहाहेश्वरः श्रीमान् राजानकमहेश्वरः । शैवशास्त्रगुरुः स मे बाक्पुष्पैरस्तु पूजितः ॥ ५ ॥ इति निवेदयति शिवभक्तानुचरः काश्मीरदेशवास्तव्यः राजानकलक्ष्मणः | ॥४॥