पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/३५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीशिवस्तोत्रावलो समावेशस्फारेण जगत् क्रीडात्वेन पश्येत इयमुक्तिः | तव महेश्वर- तायाः - विश्वप्रभुतायाः पृष्ठत एव - उपर्येव अन्यदिदं क्रीडितम् | यथैत- दिति- प्रदर्शनार्थम्, इष्टमात्र - घटितेषु इच्छामात्र सम्पन्नेषु अर्वेदानेषु - अद्भुतकर्मसु त्वदीय पवविधकृत्यात्मसु चरितेषु, अहमात्मना–स्वयमेव परिपूर्णमुपायं स्वबलाक्रमणमुखेऽपि प्राप्नोमि त्वत्समावेशात् स्वं चिद्व- लमाक्रम्य त्वद्वदहं पञ्चविधकृत्यकारी यत् तत्तवापरं क्रीडितमित्यर्थः । एवकारो भित्रक्रमः ॥ ४ ॥ ३४३ त्वद्धानि विश्ववन्द्येऽस्मिन्नियति क्रीडने सति । तव नाथ कियान् भूयान्नानन्दरससम्भवः ॥ ५ ॥ नाथ = हे स्वामी ! विश्व - = सारे जगत् वन्द्ये = पूजे जाने योग्य त्वद् = आप के धानि = प्रकाश स्वरूप परम धाम में इयति = जब इतनी ( अर्थात् इस समस्त ब्रह्माण्ड की रचना रूपिणी ) अस्मिन् = यह क्रीडने = क्रीडा ( अर्थात् लीला ) सति = है, ( ततः = तो भला ) तव = आनन्द रस ( के संपूर्ण स्वरूप ) के की सम्भवः = उत्पत्ति कियान् = कितनी भूयान् = वड़ी ( या अधिक) ( भवेत् = होगी ! ) ॥ ५॥ - विश्ववन्द्यं यत्त्वद्धाम - त्वन्महः, तत्रान्तर् इयति - विश्वात्मन्यस्मिन् क्रीडने सति, तव कियान् भूयानिति - अनल्पः स्वानन्दरसानुरूपमेव सर्वः क्रीडति ? यस्य चेयद्विश्वं क्रीडा तस्य अपर्यन्त एवानन्दः, इति स्वात्मनस्तद्दासतया श्लाघां व्यनक्ति । अत एव नाथेत्यामन्त्रणम् || ५ || १ क० पु० पश्यता - इति पाठः । २ ग० पु० प्रदर्शनार्थे – इति पाठः । - ३ ग० पु० इच्छ्यैव संपन्नेषु — इति पाठः । ४ क० पु० अपदानेषु - इति पाठः ।