पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३२ 'योगमेकत्वमिच्छन्ति श्रीशिवस्तोत्रावली ।' मा० वि० तं० [अ० ४, लो० ४ ॥ इति 'मय्यावेश्य मनो ये माम् ।' भ० गी० अ० १२, श्लो० २ ॥ , - - - इति च स्थित्या योगिनो - नित्यसमावेशस्था: । प्रशंसायां नित्ययोगे चेनि: । अनेन योगपादर इस्यनिष्ठत्वमेषामुक्तम् । पण्डितत्वं विद्यापाद्- क्रियापाद्सतत्त्वरूढिः । तत्र विद्यापादेन 'ज्ञायतेऽनेन ' - इति व्युत्पत्त्या उपायात्मकं नंरशक्तिशिवस्वरूपं ज्ञानमेकं, 'ज्ञप्तिर्ज्ञानम् - इति व्युत्पत्त्या उपेयात्मकं चिदानन्दघनस्वरूपविश्रान्तिसतत्त्वम् - इति च द्वितीयमभि- धीयते | क्रियापादेनापि वीर्यसारमन्त्रतन्त्रमुद्रातदितिकर्तव्यतायुपायरूपा तदुपायक्रमावाप्तस्वात्मविमर्शसारा ऐंव क्रियाभिधीयते । तन्त्रमन्त्राणां समस्तवाच्यवाचकाभेदामर्शसारपरमानन्दघनशब्दराशिसतत्त्वमहंविमर्श - सारं परं वीर्यम् । एतँद विभिन्नस्फुरतामयी च महासामान्यस्पन्द्रूपा प्रतिभात्मा विमर्शशक्ति: सृष्टिसंहारप्रधाना परापरं वीर्यम् । अपरं तु विश्लेषणादियुक्तिवशस्फुरिततत्तद्धचेयदेवताकारा भेदप्रतिपत्तिः । मुद्राणां तु तत्संवित्सारतैव हृदयम् । कुण्डमण्डले तिकर्तव्यतादेरपि परमेशज्ञान- क्रियाशक्तिव्याप्तिरेव तत्त्वम् । एवं विद्यापरमार्थसतत्त्वविश्रान्तिरेव पाण्डि- त्यम् | स्वस्थत्वं तु चर्यापादाभिधेयोक्तम् । करणोन्मीलन निमीलनक्रमेणैव परमेश्वरवत् सन्तंतसृष्टिसंहारादिकारि स्वस्वरूपावस्थितत्वम् । एतश्च सर्व त्वद्भक्तानामेव तत्त्वतोऽस्तीत्यलम् ॥ १॥ १ ख० पु० नित्यसमावेशयुक्ताः – इति पाठः । २ ख० पु० परशक्ति - इति पाठः । .३ ख० पु० स्वरूपम् - इति पाठः । ४ घ० पु० च - इति पाठः । ५ ग० पु० तत्र - इति पाठः । ६ ख० पु० शब्दराशिसमुत्थम् - इति पाठः । ७ ख० पु० एतदभिन्न — इति पाठः । ८ ख० पु० विद्यापादक्रियापदार्थ – इति पाठः । ग० पु० विद्यापाठार्थसतत्त्व - इति च पाठः 2 ९ ख० पु० सततम् इति पाठः ।