पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संग्रहस्तोत्रनाम त्रयोदशं स्तोत्रम् २०७ ननु श्रीपरमेश्वरभूमावभिन्नानामर्थानामस्तु सदा शुद्धत्वं, मायापदे तु भेदविनव्याकुलिते कथमेतत् ? इत्याशङ्कय भेदविघ्नप्रसरक्षयमाह - योsविकल्पमिदमर्थमण्डलं पश्यतीश निखिलं भवद्वपुः । स्वात्मपक्षपरिपूरिते जग- त्यस्य नित्यसुखिनः कुतो भयम् ॥ १६ ॥ ईश = हे स्वतंत्र प्रभु ! यः = जो आपका भक्त ) = इदं = इस निखिलम् = समस्त अर्थ-मण्डलम् = वस्तु-समूह (अर्थात् सारे जगत् ) को अविकल्पं = निर्विकल्पता से ( अर्थात् - शाक्त- समावेश - क्रम से ) भवत्- = आप का वपुः = स्वरूप ही पश्यति = देखता है - (जिसे प्रत्येक वस्तु में आप चिद्रूप की ही झलक दिखाई देती है ), ( इति = इस प्रकार ) ) स्वात्म-पक्ष- = स्वात्म स्वरूप से ( परिपूरिते = परिपूर्ण बने हुए जगति = संसार में - अस्य = उस नित्य - सुखिनः = सदा सुखी (अर्थात् परमानन्द - घन भक्त ) को भयं कुतः = भयं ( किस से - P कहाँ हो सकता है ? ॥ १६ ॥ हे ईश ! [इदमर्थमण्डलं - प्रमेयजातमविकल्पं कृत्वाहानादानादि- बुद्धिपरिहारेण श्रीभैरवीयमुद्रावीर्यस्थित्या | यो योगिवरो भवद्वपुश्चिद्र- पमेव कृत्वा पश्यति - दर्पणोदरोन्मीलनप्रतिबिम्बवत् साक्षात्करोति, अस्य स्वात्मपक्षेण - चिदैक्येम परितः समन्तात् पूरिते- स्वाभेदमा- पादिते जगति, भेदविघ्नस्योन्मीलनात् नित्यसुखिनः- परमानन्दघनस्य कुतो भयं – न कुतश्रिदेव, इति युक्तमुक्तं प्राकू- - 'तेन् ते वपुः पूजयन्त्यचलभक्तिशालिनः ॥' ( स्तो० १३, श्लो० १४ ) इति ।। १६ ।। } )