न स्फुरसि । भक्तैः पुनः संसारसंपातेऽपि वेद्यवेदकसंक्षोभे असि-त्वं
सुदर्शनः-सुखेन दृश्यसे | समावेशकाष्ठाधिवासितैर्हि सततमेतैः-
"भोक्तैव भोग्यरूपेण सदा सर्वत्र संस्थितः ॥” स्पं० नि० ३, श्लो० २ ।
इति स्पन्दशास्त्रोक्तनीत्या शिवमयमेव विश्वमीक्ष्यते । वेद्यविलापनप्रयासव्युदासाय सुशब्दः । तदुक्तं श्रीपूर्वशास्त्रे-
"मोक्षोपायमनायासलभ्यम्" (8)
इति ॥८॥
अनन्तानन्दसरसी देवी प्रियतमा यथा ।
अवियुक्तास्ति ते तद्वदेका त्वद्भक्तिरस्तु मे ॥ ९॥
(प्रभो = हे ईश्वर !)
अस्ति = बनी रहती है,
यथा = जिस प्रकार
तद्वत् = उसी प्रकार
अनन्त = असीमित
आनन्दः = आनन्द से
एका = केवल (चिदानन्द-स्वरूप)
सरसी = सरस बनी हुई
त्वद् = आपकी
प्रियतमा = आप की अत्यन्त प्रिय
भक्तिः = भक्ति
देवी = पराशक्ति देवी
( सदैव = सर्वदा)
ते = आप के साथ
मे = मेरे साथ ( अभिन्न ही)
अवियुक्ता = अभिन्न
अस्तु = बनी रहे ॥ ९ ॥
उपमाश्लेषोक्त्या परमेश्वरसाम्यमाशास्ते । भक्तिपक्षे देवी-द्योतमाना एकत्र फलाकांक्षाविरहिता, अपरत्र क्रीडादिशीला परैव शक्तिः । अहं भक्त्या अवियुक्तः स्याम्-इति वक्तव्ये, सम अवियुक्तास्तु-इति भक्तिं प्रति प्रेमप्रसरः प्रकाशितः ॥६॥
सर्व एव भवल्लाभहेतुर्भक्तिमतां विभो ।
संविन्मार्गोऽयमाह्लाददुःखमोहै स्त्रिधा स्थितः ॥१०॥
१. ख० पु०-संसारपातेऽपि-इति पाठः ।
२. ख० पु०-भोग्यभावेन-इति पाठः ।
३. का० पु०-'स्पन्दशास्त्रोक्त'-इति पदं नास्ति ।
४. ख० पु०-अनायासम्-इति पाठः ।
५. का. पु०-'एका'-इति पाठः ।