पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
भक्तिविलासाख्यं प्रथमं स्तोत्रम्


विभो = हे व्यापक प्रभु !
सर्वः = सम्पूर्ण ( अर्थात् त्रिगुणात्मक)
आह्लाद- = ( सत्त्वप्रधान) सुख,
संवित्-मार्गः = ज्ञान का मार्ग
दुःख- = ( रजःप्रधान ) दुःख
एव = ही
मोहैः = और ( तमःप्रधान ) मोह के कारण
भक्तिमतां = भक्तों के लिए
भवत्- = ( चित्स्वरूप ) आप की
त्रिधा= तीन प्रकार का
लाभ- =प्राप्ति का
स्थितः = होने वाला
हेतुः = (सहज) साधन होता है ॥१०॥
अयं = यह

 व्याख्यातप्रकृष्टभक्तिशालिनाम् अयमााह्लाददुःखमोहैरुपलक्षितो लोके यः संविन्मार्गः-नीलपीतादिबोधरूपः पन्थाः स्थितः, स सर्व एव त्वत्प्राप्तिहेतुः-वेद्यसोपाननिमज्जनक्रमेण परमवेदकभूमिलाभात् ॥ १० ॥

भवद्भक्त्यमृतास्वादाद्बोधस्य स्यात्परापि या।
दशा सा मां प्रति स्वामिन्नासवस्येव शुक्तता ॥ ११ ॥

स्वामिन् = हे स्वामी !
स्यात् = हो,
भवत् - आप की
सा = वह (शुष्क ज्ञान की पराकाष्ठा)
भक्ति - भक्ति रूपी
मां प्रति = मेरे लिए
अमृत- = अमृत का
आसवस्य = मदिरा की
आस्वादात् = रसास्वादन किये बिना
शुक्तता = खटाई
बोधस्य =ज्ञान की
इव = जैसी अर्थात् मदिरा के समान खट्टी ( अर्थात् नीरस और अरोचक)
या = जो
परा अपि = उच्च कोटि की भी
दशा = दशा
(स्यात् = है ) ॥ ११ ॥

 हे स्वामिन् स्वच्छक्तिपातसमावेशमयभक्त्यानन्दास्वादमनासाद्य बोधस्य परा-देहपातप्राप्या प्रकृष्टा अपि या शान्तशिवपदात्मा दशा स्यात्-कैश्चित् सम्भाव्यते सा तैः सम्भाव्यमाना मां प्रति आसवस्य यथा शुक्तता-पर्युषितता तथा भातीति यावत् । यतस्तैर्भक्त्यमृतमनास्वाद्यैव शुक्तीकृतम् । यैः पुनरास्वाद्यते तैः स्वचमत्कारानन्दविश्रान्तीकृतत्वात् का शुक्ततासम्भावना | आस्वादादिति ल्यब्लोपे पञ्चमी । अथवा त्वद्भक्त्यमृतास्वादादपि परा-मोक्षरूपा या काचिद्दशा अस्तीति-सम्भा-