हे महेश्वर ! मम आत्मा-जीवो भवद्भक्तिसुधापानेन युवा-समुत्तेजितसहजौजःप्रकर्षोऽपि सन् , लोकयात्रयैव रजसा-लोकव्यवहारधूल्या कृतो यो रागः-उपरागस्ततो हेतोर्यानि पलितानि-जराप्रकारास्तैः धूसरः-विच्छाय इव, न तु वस्तुवृत्तेन, भक्तिसुधापानेन नित्यतरुणीकृतत्वात् । यथा च तरुणस्य धूलिधूसरतया सञ्जातपलितमिव दृश्यमानं नान्तर्म्लानिं मनागप्यादधाति, अपि तु विनोदहासरसचमत्कारमेव पुष्णाति तथा लोकव्यवहारो ममेति रूपकोपमया ध्वनति । पूर्वश्लोके आमन्त्रणपदाभावाद्भवद्भक्तीति न सङ्गतमेव, इति कथमियं स्तोत्रशय्या ? इति श्रीविश्वावर्त एव प्रष्टव्यः, वयं तु सूक्तव्याख्यानोद्यताः ॥ २ ॥
लब्धत्वत्संपदां भक्तिमतां त्वत्पुरवासिनाम् ।
सञ्चारो लोकमार्गेऽपि स्यात्तयैव विजृम्भया ॥ ३ ॥
लब्धः = प्राप्त हुई है
लोक-मार्गे = लोक-मार्ग (व्युत्थान) में
त्वत्- =आप की
अपि भी
संपदां = ( स्वरूप-प्रथनात्मक ) संपदा जिन को, ऐसे
( यः = जो)
त्वत्== आप की
सञ्चारः = व्यवहार ( होता है वह )
पुर- = (चिद्रूप ) पुरी में
तयैव = उसी (चिदानन्द -स्वरूप के)
वासिनां = रहने वाले
विजृम्भया = विकास से
भक्तिमतां = भक्त-जनों का
स्यात् = होता है ॥ ३ ॥
ये समावेशमयप्रशस्तभक्तियुक्ताः, अत एव लब्धत्वत्संपदः त्वत्पुरेविश्वपूरके त्वत्स्वरूपे वसन्ति, तच्छीलाः, तेषां लोकमार्गे अपि यः सञ्चारः-व्यवहारः, स तयैव-समावेशरसानन्दमय्या, विजृम्भया-विकस्वरतया, स्यात्-भवत्येव । अथ च ये लब्धलौकिकश्रियः त्वद्भक्ताः त्वन्मण्डलवासिनः, ते सर्वे स्पृहणीयत्वात् सदा विभूतिमुदिताः, इति समासोक्त्या गमयति ॥३॥
१. ग० पु०-सञ्जातमिव पलितम्-इति पाठः । २. ग० पु०-वसन्ति इति तच्छीलाः-इति पाठः । ३. क्वचित् तद्भक्ताः-इति पाठः। औचियात् 'त्वद्भक्त' इत्येव पाठोऽत्र गृहीतः! ४. क्वचित् तन्मण्डलवासिनः-इति पाठः । त्वन्मण्डल'-इत्येव पाठो ज्यायान् ।