पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
भक्तिविलासाख्यं प्रथमं स्तोत्रम्

विधीयत इति विधिरिज्यध्यानादिः पूर्वं कारणं यत्र, तथा कृत्वा सर्वविधीनां संकुचितत्वादसंकुचितस्वरूपं प्रत्युपायत्वाभावात् तत्त्वसमावेशधनैरेव प्रतिभाप्रसादनप्रमुखमवाप्यते । यथोक्तं श्रीपूर्वशास्त्रे-

"न चात्र विहितं किञ्चित्.. .." मा० वि०, अ० १८, श्लो० ७७ ।
इत्यादि
"अकिंचिच्चिन्तकस्य ....।" मा० वि०, अ० २, श्लो० २३ ।
इत्यादि । गीतास्वपि-
"मय्यावेशमनो ये मां..........…" अ० १२, श्लो० २ ।

 इत्यादिकम् । ध्यानजपाभ्यां प्रकाशविमर्शस्वरूपाभ्यां पूजनहवनादि सर्वं संगृहीतमिति प्राधान्यात्तावेवेहोक्तौ ॥१॥

आत्मा मम भवद्भक्तिसुधापानयुवाऽपि सन् ।
लोकयात्रारजोरागात्पलितैरिव धूसरः ॥२॥

(प्रभो = हे प्रभु !)
सन् = रहती है,
( यद्यपि = यद्यपि)
(तथापि = तो भी यह )
मम=मेरी
लोकयात्रा = लोक-व्यवहार रूपी
रजः = धूलि के
भवद्- - आप की
रागात्= उपराग के कारण
भक्ति- भक्ति रूपी
पलितैः = श्वेत केशों से
सुधा- = अमृत के
धूसरः इव = धूसरित जैसी ( अर्थात् वृद्धावस्था को प्राप्त हुई सी)
पान - पीने से
युवा अपि = (सदैव) युवावस्था में ही
(भासते = दीख पड़ती है ) ॥ २ ॥


१. ग० पु०-इज्याध्ययनादिः-इति पाठः । ख० पु०-इज्यध्यानादिपूर्वः-
इति पाठः।
२. ग० पु०-पूर्वः-इति पाठः ।
३. ख० पु०-तत्तत्समावेशधनैः-इति पाठः । ग० पु०---तत्तु समावेशधनैः इति पाठः।
४. ख० पु०-आप्यते-इति पाठः ।
५. श्रीपूर्वशास्त्रे—'नास्मिन्विधीयते किंचित्'-इति पाठः ।